|| अद्भुतस्तुतिः ||
श्रीकृष्णलीलाशुककविमुनिविरचिता
यदनयोर्दुहं नयनयोः प्रियं किमिदमुद्भटं त्रिजगदद्भुतम् ।
हरिणमेकतो हरितमेकतः करुणया पुनः किमपि सर्वतः ॥ १॥
कमलागिरिजाकपोलबिम्बप्रतिबिम्बीभवता मुखाम्बुजेन ।
अवलोकितविभ्रमेण जातस्मितमालोकय लोकनाथवेषम् ॥ २॥
नाथश्च तातश्च सुरापगाया लोपश्च लाभश्च विलासयोनेः ।
श्वेतश्च नीलश्च स एप वेषः कथं मिथः सङ्गतिमेति देवः ॥ ३॥
अनन्तकल्पान्तभुवां सुधाभुजां कपालधाम्नः श्रियमन्तरान्तरा । (कपालदाम्नः?)
वितन्वतीभिस्तुलसीभिरद्भुतं विराजते देव भवद्भुजान्तरम् ॥ ४॥
उरसि काञ्चिच्छिरसि काञ्चिद्वहसि चान्ये वामसव्ये ।
इति विचित्रं चतसृभिस्त्वं कथमिवैकः क्रीडतीशः ॥ ५॥
शय्येति भूपेति च संशयाने भुजङ्गयाने हरिशङ्करो वः ।
विहस्य पाथोधिगिरीन्द्रकन्यास्तनेषु पायाच्छयितः कृतार्थः ॥ ६॥
निद्रान्तराले निजवल्लभाभ्यां सीमानमुल्लङ्घ्य दृढोपगूढः ।
मुग्धावबोधे चकितेक्षणाभ्यां व्रीलेक्षितोऽव्याच्छिवकेशवो वः ॥ ७॥
हरतु वो दुरितमब्धिनन्दनातुहिनशैलतनयास्तनाङ्कितम् ।
अपिच मेचकविपाण्डुविभ्रमं हरिहराकृति मनोहरं महः ॥ ८॥
गलगतगरलाङ्कुरेण भूयः प्रविसरतेव समग्रनीलकण्ठम् ।
अपिच निचितमेचकार्धगात्रं हरिहरमाश्रय विश्वतोऽवदातम् ॥ ९॥
मातेति मत्वा तव वामभागं
मन्ये गुहः स्तन्यनिपानकामः ।
पक्षेमृशन् देव विहस्य मात्रा- (वक्षोमृशन्?)
प्यन्वीक्ष्यते विघ्नकृतापहासः ॥ १०॥
स्फटिकमणिशिलाविलासचोरं
मरतककान्तिमदापहारशूरम् ।
परिकपिलदृशं पयोरुहाक्षं
भजत जगत्त्रयनाथचित्रवेषम् ॥ ११॥
स एष वेषस्तव विश्वरूपपरिग्रहप्रक्रमसूत्रधारः ।
भक्तानुकम्पापरतन्त्रमूर्ते श्रीकण्ठवैकुण्ठ! विराजयीयात् ॥ १२॥
विराचतामति वीरकृष्णलीलाशुक इति विश्रमवीथिमागतेन ।
कविश्वनितिलकेन काव्यवाणीपरिणतसीम भवद्विलासदाम ॥ १३॥
स्तोत्रं तवैतत् तुलसीदलाङ्कं प्रसूनकल्पं हृदये चिराय ।
जगत्प्रभो! शङ्करशार्ङ्गपाणे! भक्त्या प्रणीतं भगवन्! गृहाण ॥ १४॥
अद्भुतस्तुतिमिमां पुमान् पठन्नुद्भवत्पुलकहारभूषणः ।
उद्भटं कमपि गाहते मुहुर्मद्भरं हरिहराह्वयं च तम् ॥ १५॥
(हरिहरात्मकं भगवन्तं शङ्करनारायणमधिकृत्य
विरचितमिदं “अद्भुतस्तुतिः” नामकं स्तोत्ररत्नं मलबार
देशवर्तिन काट्टुमाटः नाम्नो नम्पूतिरिभवनात् सम्पादिते
६३ अङ्काङ्किते कैरलीलिपिलिखिते तालपत्रग्रन्थे विद्यमानेषु
श्रीकृष्णलीलाशुककविमुनिकृतेषु स्तोत्ररतेषु अन्यतमम् ।)
इति श्रीकृष्णलीलाशुककविमुनिविरचिता पञ्चदशश्लोका
स्तोत्ररत्नसोदरा अद्भुतस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now