Misc

अलङ्करणमालिकास्तुतिः

Alankaranamalikastutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अलङ्करणमालिकास्तुतिः ||

अलङ्करणमालिकास्तुतिः ।
कमलवनावळिभोग्यं कलशपयोराशिराजसौभाग्यम् ।
किमपि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥ १॥

हरणायाखिलविपदां करणान्येकादशापि विनियम्य ।
श्लोकैरेकादशभिर्लोकेशित्रीं स्तुवे प्रसीदतु सा ॥ २॥

अं (ब वि) धूमणि भवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति ।
किम्बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ ३॥

निरुपमवरतमसुगुणाङ्कुरनिकुरुं(बालवा) लभूतां त्वाम् ।
तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये शरणम् ॥ ४॥

शुभदाय(कौलव) णिमप्रभवौ ननु जननि तव विदितविभवौ ।
पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ ५॥

हरिदर्शनसविकसनं हारि ममामोदिषट्पदोल्लसनम् ।
हृदयाम्बुजं शरण्याहयमुखदायि (तैतुल) लितलावण्या ॥ ६॥

शिशिरमयूखावरजं वसितहयग्रीवममृतसा(गरज)म् ।
भजतां भवभरतापं नयतां नः किमपि धाम तल्लोकम् ॥ ७॥

कञ्चि(द्वणिग्ज)न इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य ।
त्वयि विक्रीयाणुतमं स्वमहो लभते महाविभूतिं त्वत् ॥ ८॥

भुवनावनतिर्निद्रा सवनाशननाथकृतनुतिकृपार्द्रा ।
धुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी (भद्रा) ॥ ९॥

(शकुनि) ध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् ।
दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १०॥

सुचतुरमतिरपि यस्ते नचरणकमलद्वयीं नमेज्जातु ।
अ(चतुष्पा) त्वर एव स नच विशयोऽत्रास्ति वचननिचयैः किम् ॥

(नागव) रभोगवाहौ रागवती भगवतीह वागीशे ।
द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान्कृपाझरी काऽपि ॥ १२॥

भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः ।
कमलापाङ्गामानसके (किंस्तुघ्नं) त्यमून्घनस्मेराः ॥ १३॥

कल्याणगुणस्यूतां कान्त्याश्लेषेण सन्ततं स्फीताम् ।
तनुतां हृद्यां जगतां माताऽलङ्करणमालिकामेताम् ॥ १४॥

एषां महिशूरेश्वरकृष्णक्ष्मापालरत्नवंशगुरोः ।
उदिता कृतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरकालात् ॥ १५॥

इत्यलङ्करणमालिकास्तुतिस्सम्पूर्णा ।

Found a Mistake or Error? Report it Now

Download अलङ्करणमालिकास्तुतिः PDF

अलङ्करणमालिकास्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App