|| श्रीदक्षिणामूर्त्यष्टकम् ||
श्रीव्यास उवाचः ।
श्रीमद्गुरो निखिलवेदशिरोनिगूढ
ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् ।
श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ
स्वात्मावबोधकपरेश नमो नमस्ते ॥ १॥
सान्निध्यमात्रमुपलभ्यसमस्तमेत-
दाभाति यस्य जगदत्र चराचरं च ।
चिन्मात्रतां निज कराङ्गुलि मुद्रयाय-
स्स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २॥
जीवेश्वराद्यखिलमत्र विकारजातं
जातं यतस्स्थतमनन्तसुखे च यस्मिन् ।
येनोपसंहृतमखण्डचिदेकशक्त्या
स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३॥
यस्स्वांशजीवसुखदुःखफलोपभोग-
हेतोर्वपूंषि विविधानि च भौतिकानि ।
निर्माय तत्र विशता करणैस्सहन्ते
जीवेन साक्ष्यमत एव नमो नमस्ते ॥ ४॥
हृत्पुण्डरीकगतचिन्मणिमात्मरूपम्
यस्मिन् समर्पयति योगबलेन विद्वान् ।
यः पूर्णबोधसुखलक्षण एकरूप
आकाशवद्विभुरुमेश नमो नमस्ते ॥ ५॥
यन्मायया हरिहर द्रुहिणा बभूवु-
स्सृष्ट्यादिकारिण इमे जगतामधीशाः ।
यद्विद्ययैव परयात्रहि वश्यमाया
स्थैर्यं गता गुरुवरेश नमो नमस्ते ॥ ६॥
स्त्रीपुंनपुंसकसमाह्वयलिङ्गहीनो-
ऽप्यास्तेत्रिलिङ्गक उमेशतया य एव ।
सत्यप्रबोध सुखरूपतया त्वरूप-
वत्त्वेन च त्रिजगदीश नमो नमस्ते ॥ ७॥
जीवत्रयं भ्रमति वै यदविद्ययैव
संसारचक्र इह दुस्तर दुःखहेतौ ।
यद्विद्ययैव निजबोधरतं स्ववश्या
विद्यञ्च तद्भवति साम्ब नमो नमस्ते ॥ ८॥
इति श्रीगुरुज्ञानवासिष्ठज्ञानकाण्डस्य द्वितीयपादे प्रथमाध्याये
श्रीव्यासकृतं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now