Misc

माहेश्वरकवचम्

Maheshvarakavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| माहेश्वरकवचम् ||

॥ अथ माहेश्वरकवचम् ॥

ॐ नमोभगवते रुद्राय ।
राजोवाच ।
अङ्गन्यासं यदुक्तंभो महेशाक्षर संयुतम् ।
विधानं कीदृशं तस्य कर्तव्यं केन हेतुना ॥ १॥

तद्वदस्व महाभाग विस्तरेण ममाग्रतः ।
भृगुरुवाच ।
कवचं महेश्वरं राजन् देवैरपि सुदुर्लभम् ॥ २॥

यः करोति स्वगात्रेषु पूतात्मा संभवेन्नरः ।
कृत्वा न्यासमिमं यस्तु सङ्ग्राम प्रविशेन्नरः ॥ ३॥

न शरास्तोमरास्तस्य खड्गशक्ति परश्वधाः ।
प्रभवन्ति रिपोः क्वापि भवेच्छिवपराक्रमः ॥ ४॥

व्याधिग्रस्तस्तु यः कश्चित्कारयेच्चैवमार्जनम् ।
एकादशकुशैः साग्रैर्मुक्तोभवति नान्यथा ॥ ५॥

न भूता न पिशाचाश्च कूष्माण्डा न विनायकाः ।
शिवस्मरणमात्रेण न विशन्ति कलेवरे ॥ ६॥

ॐ नमः पञ्चवक्त्राय शशिसोमार्कनेत्राय
भयार्त्तानामभयाय मम सर्वगात्ररक्षार्थे विनियोगः
ॐ ह्रौं ह्रां ह्रं मन्त्रेणानेन
वृषगोमयभस्मनाम् आमन्त्र्यललाटे तिलकमादाय पठेत् ॥

त्राहि मां देव दुष्प्रेक्ष्य शत्रूणांभयवर्धन ।
ॐ स्वच्छन्दभैरवः प्राच्यामाग्नेय्यां – शिखिलोचनः ॥ ७॥

भूतेशो दक्षिणे भागे नैरृत्यां भीमदर्शनः ।
वारुणे वृषकेतुश्च वायौ रक्षतु शङ्करः ॥ ८॥

दिग्वासाः सौम्यतो नित्यमैशान्यां मदनान्तकः ।
वामदेव ऊर्ध्वतो रक्षेदधोरक्षेत्त्रिलोचनः ॥ ९॥

पुरारिः पुरतः पातु कपर्दी पातु पृष्ठतः ।
विश्वेशो दक्षिणे भागे वामे कालीपतिः सदा ॥ १०॥

माहेश्वरः शिरोभागे भवो भाले सदावतु ।
भ्रुवोर्मध्ये महातेजास्त्रिनेत्रो नेत्रयोर्द्वयोः ॥ ११॥

पिनाकी नासिका देशे कर्णयोर्गिरिजापतिः ।
उग्रः कपोलतो रक्षेन्मुखदेशे महाभुजः ॥ १२॥

जिह्वायामन्धकध्वंसी दन्तान्रक्षतु मृत्युजित् ।
नीलकण्ठः सदाकण्ठे पृष्ठे कामाङ्गनाशनः ॥ १३॥

त्रिपुरारिः स्कन्धदेशे बाह्वोश्च चन्द्रशेखरः ।
हस्तिचर्मधरो हस्ते नखाङ्गुलिषु शूलभृत् ॥ १४॥

भवानीशः पातु हृदयं पातूदरकटीर्मृडः ।
गुदे लिङ्गे च मेढ्रे च नाभौ च प्रमथाधिपः ॥ १५॥

जङ्घोरुचरणे भीमः सर्वाङ्गेकेशवप्रियः ।
रोमकूपे विरूपाक्षः शब्दे स्पर्शेच योगवित् ॥ १६॥

रक्तमज्जावसामासशुक्रेवसुगणार्चितः ।
प्राणापानसमानेषुदानव्यानेषुधूर्ज्जटीः ॥ १७॥

रक्षाहीनन्तुयत्स्थानं वर्जितं कवचेन यत् ।
तत्सर्वं रक्षमे देव व्याथिदुर्गज्वरादितः ॥ १८॥

कार्यं कर्म त्विदं प्राज्ञैर्दीपं प्रज्वाल्य सर्पिषा ।
निवेद्य शिखिनेत्राय वारयेच्चोत्तरं मुखम् ॥ १९॥

ज्वरदाहपरिक्रान्तं तथान्यव्याधिसंयुतम् ।
कुशैःसंमार्ज्य समार्ज्यक्षिपेद्दीपशिखेज्वरम् ॥ २०॥

ऐकाहिकं द्व्याहिकं वा तृतीयकचतुर्थकम् ।
वातपित्तकफोद्भूतं सन्निपातोग्रतेजसम् ॥ २१॥

अन्यद्दुःखदुराधर्षं कर्म चाभिचारिकम् ।
धातुस्थं कफसंमिश्रं विषम कामसम्भवम् ॥ २२॥

भूताभिषङ्गसगर्तं भूतचेष्टादिसस्थितम् ।
शिवाज्ञां घोरमन्त्रेण पूर्ववृत्तं स्वयं स्मर ॥ २३॥

जहि देहं मनुष्यस्य दीपं गच्छ महाज्वर ।
कृत्वा तु कवचं दिव्यं सर्वव्याधिभयार्दनम् ॥ २४॥

न बाधन्ते व्याधयस्तं बालग्रहभयाश्च ये ।
लूताविस्फोटकं घोरशिरोर्त्तिच्छर्द्दिविग्रहम् ॥ २५॥ ??
कामलाक्षयकासञ्च गुल्माश्मरिभगन्दरान् ।
शूलोन्मादञ्चहृद्रोगं यकृतं पाण्डुविद्रधिम् ॥ २६॥

अतिसारादयोरोगा डाकिनीग्रहपीडिताम् ।
पामाविचर्चिकाद्द्रुकुष्ठव्याधिविषार्दनम् ॥ २७॥

स्मरणान्नाशयत्याशु कवचं शूलपाणिनः ।
यस्तु स्मरति नित्यं वै यस्तु धारयते नरः ॥ २८॥

समुक्तः सर्वपापेभ्यो वसेच्छिवपुरे चिरम् ।
सख्यव्रतस्य दानस्य यज्ञस्यास्तीव शास्त्रतः ॥ २९॥

न सङ्ख्या विद्यते शम्भोः सर्वकामफलप्रदम् ॥ ३०॥

श्रोतव्यं सततं भक्त्या कवचं सर्वकामिकम् ।
लिखितं तिष्ठते यस्य गृहे सम्यगनुत्तमम् ॥ ३१॥

न तत्र कलहोद्वेगं नाकालमरणंभवेत् ।
नाल्पप्रजाः स्त्रियस्तत्र न दौर्भाग्यसमाश्रिताः ॥ ३२॥

तस्मान्माहेश्वरं नाम कवचं सुरगणार्चितम् ।
श्रोतव्यं पठितव्यञ्च मन्तव्यं भावुकप्रदम् ॥ ३३॥

माहेश्वरस्य कवचं सर्वव्याधिनिषूदनम् ।
यः पठेच्चेन्नरो नित्यं सव्रजेच्छाङ्करं पुरम् ॥ ३४॥

इति श्रीमाहेश्वरकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download माहेश्वरकवचम् PDF

माहेश्वरकवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App