Download HinduNidhi App
Misc

स्वामिनाथ स्तोत्र

Swaminatha Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| स्वामिनाथ स्तोत्र ||

श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम्।

श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः।

श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम्।

भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः।

श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम्।

श्रीवीरभद्रादिगणैः समेतं वन्दे गुहं तं गुरुरूपिणं नः।

श्रीस्वामिनाथं सुरसैन्यपालं शूरादिसर्वासुरसूदकं तम्।

विरिञ्चिविष्ण्वादिसुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः।

श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम्।

मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं तं गुरुरूपिणं नः।

श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं विद्याधराराधितपादपद्मम्।

अहोपयोवीवधनित्यतृप्तं वन्दे गुहं तं गुरुरूपिणं नः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
स्वामिनाथ स्तोत्र PDF

Download स्वामिनाथ स्तोत्र PDF

स्वामिनाथ स्तोत्र PDF

Leave a Comment