Download HinduNidhi App
Misc

श्री सौलभ्यचूडामणि स्तोत्रम्

Saulabhya Choodamani Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री सौलभ्यचूडामणि स्तोत्रम् ||

ब्रह्मोवाच ।
चक्राम्भोजे समासीनं चक्राद्यायुधधारिणम् ।
चक्ररूपं महाविष्णुं चक्रमन्त्रेण चिन्तयेत् ॥ १ ॥

सर्वावयवसम्पूर्णं भयस्यापि भयङ्करम् ।
उग्रं त्रिनेत्रं केशाग्निं ज्वालामालासमाकुलम् ॥ २ ॥

अप्रमेयमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् ।
अष्टायुधपरीवारं अष्टापदसमद्युतिम् ॥ ३ ॥

अष्टारचक्रमत्युग्रं संवर्ताग्निसमप्रभम् ।
दक्षिणैर्बाहुभिश्चक्रमुसलाङ्कुशपत्रिणः ॥ ४ ॥

दधानं वामतः शङ्खचापपाशगदाधरम् ।
रक्ताम्बरधरं देवं रक्तमाल्योपशोभितम् ॥ ५ ॥

रक्तचन्दनलिप्ताङ्गं रक्तवर्णमिवाम्बुदम् ।
श्रीवत्सकौस्तुभोरस्कं दीप्तकुण्डलधारिणम् ॥ ६ ॥

हारकेयूरकटकशृङ्खलाद्यैरलङ्कृतम् ।
दुष्टनिग्रहकर्तारं शिष्टानुग्रहकारिणम् ॥ ७ ॥

एवं सौदर्शनं नित्यं पुरुषं हृदि भावयेत् ।
सौलभ्यचूडामण्याख्यं मया भक्त्या समीरितम् ॥ ८ ॥

चूडायुक्तं त्रिसन्ध्यायां यः पठेत् स्तोत्रमुत्तमम् ।
भयं च न भवेत्तस्य दुरितं च कदाचन ॥ ९ ॥

जले वाऽपि स्थले वाऽपि चोरदुःखमहापदि ।
सङ्ग्रामे राजसंमर्दे शत्रुभिः परिपीडिते ॥ १० ॥

बन्धने निगले वाऽपि सङ्कटेऽपि महाभये ।
यः पठेत् परया भक्त्या स्तोत्रमेतज्जितेन्द्रियः ।
सर्वत्र च सुखी भूत्वा सर्वान् कामानवाप्नुयात् ॥ ११ ॥

इति श्री सौलभ्यचूडामणि स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सौलभ्यचूडामणि स्तोत्रम् PDF

श्री सौलभ्यचूडामणि स्तोत्रम् PDF

Leave a Comment