|| अभयाष्टकम् ||
भो ब्रह्मन् रमणेश ! तावकपदाम्भोजद्वये साम्प्रतं
विज्ञाप्यं रहसीदमेकमधुना श्रोतव्यमित्यर्थये ।
अज्ञातं भुवि नाणुमात्रमपि ते सर्वज्ञचूडामणे-
र्वक्तव्यं त्वननूदितं ननु नृणां मर्माणि निष्कृन्तति ॥ १॥
भीत्या त्वत्पदपङ्कजे श्रितवतां क्लेशप्रहाणैषिणा-
मत्रत्यैरुपचीयमानमनिशं प्रच्छन्नविद्वेषिभिः ।
दुर्वारप्रसरं भयं रमण ! नः क्षोभप्रदं चेतसः
स्वामिन्नाशयमूलतोऽथ वदवाऽभीतिप्रतिज्ञावचः ॥ २॥
संसाराह्वयनाटकस्य च भवान् सत्सूत्रधारायित-
स्स्वामिन् मृत्युभिया मृकण्डुसुतवद्भर्गाकृतिं तावकीम् ।
मूर्तिं भव्यधियो वयं शरणमित्याश्रित्य सेवामहे
किं वास्मास्वपि ते विहीनकरुणं युक्तं भयोत्पादनम् ॥ ३॥
वेदान्ते क्वचिदाश्रुतं भगवतो भीतिप्रदत्वन्तु य-
त्तन्माया परिकल्पितार्थविषयं तत्त्वार्थतां नाश्नुते ।
नोचेद्धन्त ! विजानतां तव कृपालेशाद्विमुक्तात्मनां
नूनं नैव घटेत भीतिरहितावस्थत्वमव्याहतम् ॥ ४॥
मायाकल्पितनामरूपकलना यावन्नृणां वर्तते
तावत्तान्समुपैति भीतिरिति हि प्रोवाच वाग्वैदिकी ।
अद्वैते परिनिष्ठितस्य महसि स्वे ते गतान्दृक्पथं
द्वैतान्नः कथमेतु भीतिरथवा ताः किन्निरर्था गिरः ॥ ५॥
कल्याणानि तनोतु कोऽपि गुरुराट् कैवल्यदानव्रती
व्यापन्नाभयसत्रदीक्षित इति ख्यातः कृपालुः क्षमी ।
सर्वानर्थनिदानमोहकलिलोद्भूतं भयं मानसं
किञ्च श्रीरमणः प्रमार्ष्टु भगवानित्येव नः प्रार्थना ॥ ६॥
रमणभगवत्पादम्भोजे सदा रमतां मनो
रमणभगवद्वक्त्राम्भोजे मनः पिबतान्मधु ।
रमणभगवन्मूर्तिं दिव्यां मुहुस्स्मरतान्मनो
रमणभगवत्पादाचार्यो ममास्तु परायणम् ॥ ७॥
शोणाद्रीश्वरसञ्चराय यमिने मायागृहीतात्मने
स्वात्मस्थाय कृपारसार्द्रमनसे शान्ताय सन्यासिने ।
मग्नानां भवसागरे भुवि नृणामानन्दमुत्सर्जते
तस्मै श्रीरमणाय बोधगुरवे तन्म स्त्रिसन्ध्यं नमः ॥ ८॥
ध्यायेत् पद्मासनस्थं प्रमुदितवदनं दक्षिणामूर्तिरूपं
कौपीनालङ्कृताङ्गं हृदि किमपि महस्सन्ततं चिन्तयन्तम् ।
भासा स्वेनैव भान्तं गुरुकरुणदृशं साधुसंसेविताङ्घ्रिं
सर्वश्रेयोवदान्यं रमणमुनिवरं शोणशैलेशरूपम् ॥ ९॥
कृषीष्ट भगवानिष्टं पठतामभयाष्टकम् ।
विष्टभ्य भुवनं कृत्स्नं य ईष्टे रमणो गुरुः ॥ १०॥
इति अभयाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now