Misc

आचार्यपदावलम्बनस्तुतिः

Acharyapadavalambanastutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| आचार्यपदावलम्बनस्तुतिः ||

ओमित्यशेषविबुधाः शिरसा यदाज्ञां
सम्बिभ्रते सुममयीमिव नव्यमालाम् ।
ओङ्कारजापरतलभ्यपदाब्ज स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥

नम्रालिहृत्तिमिरचण्डमयूखमालिन्
कम्रस्मितापहृतकुन्दसुधांशुदर्प ।
सम्राट यदीयदयया प्रभवेद्दरिद्रः
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥

मस्ते दुरक्षरततिर्लिखिता विधात्रा
जागर्तु साध्वसलवोऽपि न मेऽस्ति तस्याः ।
लुम्पामि ते करुणया करुणाम्बुधे तां
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥

शम्पालतासदृशभास्वरदेहयुक्त
सम्पादयाम्यखिलशास्त्रधियं कदा वा ।
शङ्कानिवारणपटो नमतां नराणां
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ४॥

कन्दर्पदर्पदलनं कितवैरगम्यं
कारुण्यजन्मभवनं कृतसर्वरक्षम् ।
कीनाशभीतिहरणं श्रितवानहं त्वां
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥

राकासुधाकरसमानमुखप्रसर्प-
द्वेदान्तवाक्यसुधया भवतापतप्तम् ।
संसिच्य मां करुणया गुरुराज शीघ्रं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥

यत्नं विना मधुसुधासुरदीर्घिकाव-
धीरिण्य आशु वृणते स्वयमेव वाचः ।
तं त्वत्पदाब्जयुगलं बिभृते हृदा यः
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥

विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लब्धा बलादिक्षुतः ।
न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्गिरां
माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥ ८॥

श्रीशङ्करार्यकरुणावशतः प्रणीतं
स्तोत्रं तदीयमनुवर्णयुतं तदङ्घ्र्योः ।
भक्त्या समर्पितमिदं पठतां नराणां
विद्यां विरक्तिमतुलां गुरुराट् तनोतु ॥ ९॥

इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता आचार्यपदावलम्बनस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download आचार्यपदावलम्बनस्तुतिः PDF

आचार्यपदावलम्बनस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App