Misc

श्रीआचार्यपरम्परास्तोत्रम्

Acharyaparamparastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीआचार्यपरम्परास्तोत्रम् ||

श्रीहंसं सनकादिकं मुनिवरं वीणाधरं नारदं
श्रीमन्निम्बदिवाकरार्यकमहं श्रीश्रीनिवासं भजे ।
विश्वार्य्यपुरुषोत्तमञ्चभवहन् श्रीमद्विलासास्वरू-
पाचार्य्यं किलमाधवं च वलयुक्भद्रं च पद्मार्पकम् ॥ १॥

वन्दे श्यामकगोपपालककृपान्, देवार्यकं सुन्दरं
पद्मोपेन्द्रक-रामचन्द्रकभटान् श्रीवामनं कृष्णकम् ।
पद्माभं श्रवणञ्च भूरिभटकं श्रीमाधवं श्यामलं
गोपालं वलभद्रगोपिवरदं श्रीकेशवं गाङ्गलम् ॥ २॥

काश्मीरीयुतकेशवं भटमहं श्रीभट्टदेवं भजे
श्रीव्यासं हरिमध्यगञ्चवरदं श्रीपरशुरामामिधम् ।
वन्दे श्रीहरिवंशदेवचरणं नारायणार्य्यं भजे
श्रीवृन्दावनदेवपादशरणं गोविन्ददेवं भजे ॥ ३॥

गोविन्दं प्रणमामि देव शरणं शैलीनवीनाङ्करं
लोके ख्याति विधायकं गुरुवरं सर्वेश्वरार्य्यं भजे ।
श्रीनिम्बार्कपदं सदेवशरणं नित्यं नुमश्चेतसा
वन्दे श्रीव्रजराजपादशरणं देवान्तनामामिधम् ॥ ४॥

श्रीगोपेश्वरपादपद्मयुगलं नौमि प्रलोभान्न्तकं
पीठं येन विनिर्मितं सुरुचिरं कुण्डं पयोधीकृतम् ।
राधामाधवपादलोलुपघनश्यामार्यपादं पुनः
देवाचार्यकसंज्ञकं शरणयुक्श्रीबालकृष्णामिधम् ॥ ५॥

वेदवेदान्ततत्त्वज्ञमिष्टाराधनमानसम् ।
राधासर्वेश्वराद्य तं शरणान्तं नमाम्यहम् ।

इति श्रीआचार्यपरम्परास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीआचार्यपरम्परास्तोत्रम् PDF

श्रीआचार्यपरम्परास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App