श्रीआचार्यपरम्परास्तोत्रम् PDF संस्कृत
Download PDF of Acharyaparamparastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीआचार्यपरम्परास्तोत्रम् संस्कृत Lyrics
|| श्रीआचार्यपरम्परास्तोत्रम् ||
श्रीहंसं सनकादिकं मुनिवरं वीणाधरं नारदं
श्रीमन्निम्बदिवाकरार्यकमहं श्रीश्रीनिवासं भजे ।
विश्वार्य्यपुरुषोत्तमञ्चभवहन् श्रीमद्विलासास्वरू-
पाचार्य्यं किलमाधवं च वलयुक्भद्रं च पद्मार्पकम् ॥ १॥
वन्दे श्यामकगोपपालककृपान्, देवार्यकं सुन्दरं
पद्मोपेन्द्रक-रामचन्द्रकभटान् श्रीवामनं कृष्णकम् ।
पद्माभं श्रवणञ्च भूरिभटकं श्रीमाधवं श्यामलं
गोपालं वलभद्रगोपिवरदं श्रीकेशवं गाङ्गलम् ॥ २॥
काश्मीरीयुतकेशवं भटमहं श्रीभट्टदेवं भजे
श्रीव्यासं हरिमध्यगञ्चवरदं श्रीपरशुरामामिधम् ।
वन्दे श्रीहरिवंशदेवचरणं नारायणार्य्यं भजे
श्रीवृन्दावनदेवपादशरणं गोविन्ददेवं भजे ॥ ३॥
गोविन्दं प्रणमामि देव शरणं शैलीनवीनाङ्करं
लोके ख्याति विधायकं गुरुवरं सर्वेश्वरार्य्यं भजे ।
श्रीनिम्बार्कपदं सदेवशरणं नित्यं नुमश्चेतसा
वन्दे श्रीव्रजराजपादशरणं देवान्तनामामिधम् ॥ ४॥
श्रीगोपेश्वरपादपद्मयुगलं नौमि प्रलोभान्न्तकं
पीठं येन विनिर्मितं सुरुचिरं कुण्डं पयोधीकृतम् ।
राधामाधवपादलोलुपघनश्यामार्यपादं पुनः
देवाचार्यकसंज्ञकं शरणयुक्श्रीबालकृष्णामिधम् ॥ ५॥
वेदवेदान्ततत्त्वज्ञमिष्टाराधनमानसम् ।
राधासर्वेश्वराद्य तं शरणान्तं नमाम्यहम् ।
इति श्रीआचार्यपरम्परास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीआचार्यपरम्परास्तोत्रम्
READ
श्रीआचार्यपरम्परास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
