|| श्री अगस्त्यमहर्षिस्तोत्रम् ||
(शार्दूलविक्रीडितवृत्तम्)
जीवोद्धारपरायणा सुसरिता कावेरिनामाङिकता
यच्छक्तिः सुमहोज्वला सुखघना राराजते क्ष्मातले ।
वातापील्वलराक्षसावृषिमुनिस्वाध्यायविध्वंसिनौध्वस्तौ
येन तपोबलात्तमनघं तं नौम्यगस्त्यं गुरुम् ॥ १॥
सिद्धानामतिशायिशक्तिविभवं सामर्थ्यमूर्तिं गुरुं
कन्दर्पोद्धतदुष्टदर्पकरिनुच्छार्दूलकीर्तिप्रभम् ।
दुष्टारण्यविनाशनैकबलभृद्दावानलं शोभनं
वन्दे कुम्भजमद्गुतं भवभयभ्रान्त्यर्णवापोशनम् ॥ २॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं श्री अगस्त्यमहर्षिस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now