Misc

श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम्

Akkalakotasvamikavacha Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम् ||

ॐ ।
अस्य श्री स्वामी कवच स्तोत्रमंत्रस्य ।
सुव्रत ऋषिः । अनुष्टुप् छंदः ।
स्वामी समर्थ देवता ।
शङ्करराजे शक्तिः ।
बाळाप्पा कीलकम् ।
मम सकलाभीष्टप्राप्त्यर्थं पाठे विनियोगः ।
। अथ करन्यासः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥

ॐ ह्रीं तर्जनीभ्यां नमः ॥

ॐ ह्रूं मध्यमाभ्यां नमः ॥

ॐ ह्रैं अनामिकाभ्यां नमः ॥

ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥

ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥

॥ अथ षडङ्गन्यासः ॥

ॐ ह्रां हृदयाय नमः ॥

ॐ ह्रीं शिरसे स्वाहा ॥

ॐ ह्रूं शिखायै वषट् ॥

ॐ ह्रैं कवचाय हुं ॥

ॐ ह्रौं नेत्रत्रयाय वौषट् ॥

ॐ ह्रः अस्त्राय फट् ॥

॥ अथ ध्यानम् ॥

भूमानंदं सहजसुखदं केवलं ब्रह्ममूर्तिम् ।
विश्वातीतं विमलहृदयं वेदवेदान्त वेद्यम् ॥ १॥

शान्तं दान्तं सरलमनसं सर्वसामर्थ्यरूपम् । ं
सर्वातीतं ह्यमरमचलं स्वामिनं तं नमामि ॥ २॥

ॐ शीर्षं मे पातु स्वामी वै ।
भालं नेत्रे च सद्गुरुः ॥ १॥

कण्ठं मुखञ्च पातु मे ।
स्वामीसमर्थ देशिकः ॥ २॥

स्कन्धौ मे पातु स्वामी वै ।
बाहू पातु तु सद्गुरुः ॥ ३॥

करौ मे पातु स्वामी च ।
अङ्गुलयश्च देशिकः ॥ ४॥

प्रज्ञाप्राकारवासी वै ।
हृदयं पातु मे सदा ॥ ५॥

उरः स्थलञ्च स्वामी वै ।
कटिं मध्यं हि सद्गुरुः ॥ ६॥

नाभिं जङ्घे च स्वामी वै ।
गुह्यं पातु च देशिकः ॥ ७॥

ऊरू जानु समर्थश्च ।
पादौ स्वामी च पातु मे ॥ ८॥

देहं मनश्च प्रज्ञाञ्च ।
प्रज्ञापुरस्थितः सदा ॥ ९॥

दशदिक्षु स पातु मां ।
स्वामीसमर्थ सद्गुरुः ॥ १०॥

उत्पातान्त्रिविधान्नित्यं ।
नष्टान् कुर्वन्तु सद्गुरुः ॥ ११॥

संकटानाधिव्याधींश्च ।
नश्यन्तु देशिकः सदा ॥ १२॥

नानापीडांश्च बाधांश्च जरामरणयातनाः ।
प्रातिकूल्यादिविघ्नांश्च नश्यन्तु सद्गुरुः सदा ॥ १३॥

भूतप्रेतपिशाचांश्च वेतालब्रह्मराक्षसान् ।
शाकिनिडाकिन्यादींश्च नश्यन्तु स्वामीसमर्थः ॥ १४॥

महापापांश्च घोरांश्च ब्रह्महत्यादिदुर्धरान् ।
समूलान्पातकान्नित्यं नश्यन्तु सद्गुरुस्तथा ॥ १५॥

स्वामी समर्थ तेजश्च रक्षतु माञ्च सर्वदा ।
भूत्वा तत्कवचं मे च अभेद्यं तत्भवेत्सदा ॥ १६॥

वज्रकवचमिदं वै च यः पठेद्भक्तिमान्नरः ।
तीर्त्वा च संकटान्घोरान् सर्वतः सुखमाप्नुयात् ॥ १७॥

प्रतिदिनं पठेद्यो भक्तो भावपूरितचित्ततः ।
संसारसागरं तीर्त्वा भुक्तिं मुक्तिञ्च विन्दति ॥ १८॥

साधको यो यदिच्छेच्च गुरुभक्तो हि वर्तते ।
प्रसन्नो तस्मिन्हि भूत्वा च कृपालुर्भवति शीघ्रतः ॥ १९॥

स्वामीसमर्थप्रसादश्च कवचं जानयेद् बुधः ॥

सच्छिष्याय भक्ताय दातव्यं न च कर्हिचित् ॥ २०॥

अतिदिव्यं कवचं श्रेष्ठं दत्तं मे स्वामिनाऽधुना ।
अहं ददामि शिष्याय प्रकाशाय प्रियाय च ॥ २१॥

इदं कवचं तस्मै वै शुभं करोति सर्वदा ।
सर्वेषां मंगलं भूयात् दिव्यं कवचमेव च ॥ २२॥

सदिच्छां प्रकटीकृत्वा समापनं करोम्यहम् ।
नत्त्वा स्वामीसमर्थं च नमामि श्रीधरं गुरुम् ॥ २३॥

प्रकाशस्य निमित्तेन प्रकाशितमिदं स्तवः ।
तर्हि तत्प्रति चाशींश्च ददामि च पुनः पुनः ॥ २४॥

अक्कलकोटवासी च स्वामीसमर्थ सद्गुरुः ।
भूयात् सर्वमांगल्यं सर्वेषामिति प्रार्थये ॥ २५॥

॥ इति सुव्रतविरचितं स्वामीसमर्थवज्रकवचं समाप्तम् ॥

Found a Mistake or Error? Report it Now

Download श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम् PDF

श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App