अक्रूरकृतं श्रीकृष्णस्तोत्रम् PDF संस्कृत
Download PDF of Akrurakrritamshrikrrishnastotram Sanskrit
Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अक्रूरकृतं श्रीकृष्णस्तोत्रम् संस्कृत Lyrics
|| अक्रूरकृतं श्रीकृष्णस्तोत्रम् ||
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु चरेषु स्थावरेषु च ॥ १॥
तत्राश्चर्यं मया दृष्टं यत्कृष्ण भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च ॥ २॥
संगतश्चास्मि लोकानामश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥ ३॥
को वायं त्रिषु लोकेषु विस्मयं भवता विना ।
नमः सर्वात्मने तुभ्यं विस्मयाय जगत्पते ॥ ४॥
नमोऽस्तु देवदेवेश तुभ्यं सर्वात्मने नमः ।
नमोऽस्तु विष्णवे तुभ्यममेयाय जगत्पते ॥ ५॥
किं वानेन जगन्नाथ कृतकृत्योऽस्मि सांप्रतम् ।
कृत्यशेषं सदा विष्णो किमुत्सृजसि सांप्रतम् ॥ ६॥
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नस्तं व्रजत्येष दिवसान्ते दिवाकरः ॥ ७॥
इति हरिवंशान्तर्गतं अक्रूरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअक्रूरकृतं श्रीकृष्णस्तोत्रम्
READ
अक्रूरकृतं श्रीकृष्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
