Misc

अमृतलहरी

Amrtalahari Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अमृतलहरी ||

मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं
यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते ।
तस्यारोहति किं न धन्यजनुषः स्वान्तं नितान्तोल्लस-
न्नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥ १

नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विषां
तोयानां यमुने तव स्तवविधौ को याति वाचालताम् ।
येषु द्राग्विनिमज्ज्य सज्जतितरां रम्भाकराम्भोरुह-
स्फूर्जच्चामरवीजितामरपदं जेतुं वराको नरः ॥ २

दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल-
द्भृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः ।
त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो
वृत्तिं हन्त मुनेः प्रयान्तु यमुने वीतज्वरा वासराः ॥ ३

अन्तर्मौक्तिकपुञ्जमञ्जिम बहिः स्निग्धेन्द्रनीलप्रभं
मातर्मे मुदमातनोतु करुणावत्या भवत्याः पयः ।
यद्रूपद्वयधारणादिव नृणामा चूडमामज्जतां
तत्कालं तनुतेतरां हरिहराकारामुदारां तनुम् ॥ ४

तावत्पापकदम्बडम्बरमिदं तावत्कृतान्ताद्भयं
तावन्मानसपद्मसद्मनि भवभ्रान्तेर्महानुत्सवः ।
यावल्लोचनयोः प्रयाति न मनागम्भोजिनीबन्धुजे
नृत्यत्तुङ्गतरङ्गभङ्गिरुचिरो वारां प्रवाहस्तव ॥ ५

कालिन्दीति कदापि कौतुकवशात्त्वन्नामवर्णानिमा-
न्व्यस्तानालपतां नृणां यदि करे खेलन्ति संसिद्धयः ।
अन्तर्ध्वान्तकुलान्तकारिणि तव क्षिप्ताभृते वारिणि
स्नातानां पुनरन्वहं स महिमा केनाधुना वर्ण्यते ॥ ६

स्वर्णस्तेयपरानपेयरसिकान्पान्थःकणास्ते यदि
ब्रह्मघ्नान्गुरुतल्पगानपि परित्रातुं गृहीतव्रताः ।
प्रायश्चित्तकुलैरलं तदधुना मातः परेताधिप-
प्रौढाहंकृतिहारिहुंकृतिमुचामग्रे तव स्रोतसाम् ॥ ७

पायं पायमपायहारि जान्नि स्वादु त्वदीयं पयो
नायं नायमनायनीमकृतिनां मूर्तिं दृशोः कैशवीम् ।
स्मारं स्मारमपारपुण्यविभवं कृष्णेति वर्णद्वयं
चारं चारमितस्ततस्तव तटे मुक्तो भवेयं कदा ॥ ८

मातर्वारिणि पापहारिणि तव प्राणप्रयाणोत्सवं
सम्प्राप्तेन कृतां नरेण सहतेऽवज्ञां कृतान्तोऽपि यत् ।
यद्वा मण्डलभेदनादुदयिनीश्चण्डद्युतिर्वेदना-
श्चित्रं तत्र किमप्रमेयमहिमा प्रेमा यदौत्पत्तिकः ॥ ९

संज्ञाकान्तसुते कृतान्तभगिनि श्रीकृष्णनित्यप्रिये
पापोन्मूलिनि पुण्यधात्रि यमुने कालिन्दि तुभ्यं नमः ।
एवं स्नानविधौ पठन्ति खलु ये नित्यं गृहीतव्रता-
स्तानामन्त्रितसंख्यजन्मजनितं पापं क्षणादुज्झति ॥ १०

अयं पण्डितराजेन श्रीजगन्नाथशर्मणा ।
स्तवः कलिन्दनन्दिन्या निर्मलो निरमीयत ॥ ११

॥ इति पण्डितराजश्रीजगन्नथकृतामृतलहरिः समाप्ता ॥

Found a Mistake or Error? Report it Now

Download अमृतलहरी PDF

अमृतलहरी PDF

Leave a Comment

Join WhatsApp Channel Download App