|| श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् ||
चिदम्बरेश्वरः शम्भुः नटेशो नटनप्रियः ।
अपस्मारहरो हंसो नृत्तराजः सभापतिः ॥ १॥
पुण्डरीकपुराधीशः श्रीमद्धेमसभेश्वरः ।
शिवश्चिदम्बरमनुर्मन्त्रमूर्तिहरिप्रियः ॥ २॥
द्वादशान्तस्थितो नृत्तो नृत्तमूर्तिः परात्परः ।
परानन्दः परञ्ज्योतिः आनन्दो विबुधेश्वरः ॥ ३॥
परप्रकाशो नृत्ताङ्गो नृत्तपादस्त्रिलोचनः ।
व्याघ्रपादप्रियो मन्त्रराजस्तिल्ववनेश्वरः ॥ ४॥
हरो रत्नसभानाथः पतञ्जलिवरप्रदः ।
मन्त्रविग्रह ओङ्कारः शङ्करश्चन्द्रशेखरः ॥ ५॥
नीलकण्ठो ललाटाक्षो वह्निहस्तो महेश्वरः ।
आनन्दताण्डवः श्वेतो गङ्गाधरो जटाधरः ॥ ६॥
चक्रेशः कुञ्चितपदः श्रीचक्राङ्गोऽभयप्रदः ।
मणिनूपुरपादाब्जः त्रिपुरावल्लभेश्वरः ॥ ७॥
बीजहस्तः चक्रनाथो बिन्दुत्रैकोणवासकः ।
पाञ्चभौतिकदेहाङ्गः परमानन्दताण्डवः ॥ ८॥
भुजङ्गभूषणः पञ्चदशाक्षरमनोहरः ।
विश्वेश्वरो विरूपाक्षो विश्वातीतो जगद्गुरुः ॥ ९॥
त्रिचत्वारिंशत्कोणाङ्गः प्रभाचक्रेश्वरः प्रभुः ।
नवावरणचक्रेशो नवचक्रेश्वरीप्रियः ॥ १०॥
नाट्येश्वरः सभानाथः सिंहवर्मप्रपूजितः ।
व्याघ्रचर्माम्बरधरोभीमः ह्री(क्ली)ङ्कारनायकः ॥ ११॥
ह्रीं(ऐं) काररुद्रस्रिशिवस्तत्त्वातीतो निरञ्जनः ।
रामोऽनन्तस्तत्त्वमूर्तिः रुद्रः कालान्तकोऽव्ययः ॥ १२॥
क्ष्म्र्यूङ्कार शम्भुरव्यक्तः त्रिगुणश्चित्प्रकाशकः ।
सौङ्कारसोमस्तत्वज्ञोऽघोरो दक्षाध्वरान्तकः ॥ १३॥
कामारिर्गजसंहर्ता वीरभद्रः सदाशिवः ।
भिक्षाटनः कृष्णगन्धप्रियः कङ्कालभैरवः ॥ १४॥
नृसिंहगर्वहरणो भद्रकालीमदान्तकः ।
निर्विकल्पो निराकारो निर्मलाङ्गो निरामयः ॥ १५॥
ब्रह्मविष्णुप्रियः आनन्दनटेशो भक्तवत्सलः ।
श्रीमद्दभ्रसभानाथः शिवकामीमनोहरः ॥ १६॥
श्रीमदानन्दनटराजस्याष्टोत्तरं शतम् ।
नाम्नां सङ्कीर्तयेत् नित्यं सर्वपापप्रणशकम् ॥ १७॥
पुत्रपौत्रप्रदं वंशवृद्धिदं विषनाशनम् ।
आयुष्करं व्याधिहरं सर्वसम्पत्प्रदायकम् ॥ १८॥
सर्वमङ्गलसंप्राप्तिः जायते तस्य हि धुवम् ।
इति श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now