|| श्री अनन्तकृष्णवरदराजाष्टकम् ||
श्री-भूमि-नीला-परिसेव्यमान-
मनन्तकृष्णं वरदाख्य-विष्णुम् ।
अघौघविध्वंसकरं जनानां
अघंहरेशं प्रभजे सदाऽहम् ॥ १॥
तिष्ठन् स्वधिष्ण्ये परितो विपश्यन्
आनन्दयन् स्वानभिराममूर्त्या ।
योऽघंहरग्रामजनान् पुनीते
ह्यनन्तकृष्णं वरदेशमीडे ॥ २॥
भक्तान् जनान् पालनदक्षमेकं
विभुं श्रियाऽऽश्लिष्यतनुं महान्तम् ।
सुपर्णपक्षोपरिरोचमान-
मनन्तकृष्णं वरदेशमीडे ॥ ३॥
सूर्यस्य कान्त्या सदृशैर्विराजद्-
रत्नैः समालङ्कृतवेषभूषम् ।
तमो विनाशाय मुहुर्मुहुस्त्वा-
मनन्तकृष्णं वरदेशमीडे ॥ ४॥
अनन्तसंसार-समुद्रतार-
नौकायितं श्रीपतिमाननाब्जम् ।
अनन्तभक्तैः परिदृश्यमान-
मनन्तकृष्णं वरदेशमीडे ॥ ५॥
नमन्ति देवाः सततं यमेव
किरीटिनं गदिनं चक्रिणं तम् ।
वैखानसैः सूरिभिरर्चयन्त-
मनन्तकृष्णं वरदेशमीडे ॥ ६॥
तनोति देवः कृपया वरान् यो
चिरायुषं भूतिमनन्यसिद्धिम् ।
तं देवदेवं वरदानदक्ष-
मनन्तकृष्णं वरदेशमीडे ॥ ७॥
कृष्णं नमस्कृत्य महामुनीन्द्राः
स्वानन्दतुष्टा विगतान्यवाचः ।
तं स्वानुभूत्यै भव-पाद्म-वन्द्य-
मनन्तकृष्णं वरदेशमीडे ॥ ८॥
अनन्तकृष्णस्य कृपावलोका-
दघंहर-ग्रामज-दीक्षितेन ।
सुसूक्तिमालां रचितां मनोज्ञां
गृह्णातु देवो वरदेश- विष्णुः ॥
॥ इति अघंहर-ग्राम-वासिना अनन्तकृष्णवरदराजस्य
पार्श्ववर्तिना ब्रह्मश्री रङ्गस्वामि-दीक्षितेन विरचितं
अनन्त-कृष्ण-वरदराजाष्टकं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now