श्री अनन्तकृष्णवरदराजाष्टकम् PDF संस्कृत
Download PDF of Anantakrrishnavaradarajashtakam Sanskrit
Shri Krishna ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री अनन्तकृष्णवरदराजाष्टकम् संस्कृत Lyrics
|| श्री अनन्तकृष्णवरदराजाष्टकम् ||
श्री-भूमि-नीला-परिसेव्यमान
मनन्तकृष्णं वरदाख्य-विष्णुम् ।
अघौघविध्वंसकरं जनानां
अघंहरेशं प्रभजे सदाऽहम् ॥ १॥
तिष्ठन् स्वधिष्ण्ये परितो विपश्यन्
आनन्दयन् स्वानभिराममूर्त्या ।
योऽघंहरग्रामजनान् पुनीते
ह्यनन्तकृष्णं वरदेशमीडे ॥ २॥
भक्तान् जनान् पालनदक्षमेकं
विभुं श्रियाऽऽश्लिष्यतनुं महान्तम् ।
सुपर्णपक्षोपरिरोचमान
मनन्तकृष्णं वरदेशमीडे ॥ ३॥
सूर्यस्य कान्त्या सदृशैर्विराजद्
रत्नैः समालङ्कृतवेषभूषम् ।
तमो विनाशाय मुहुर्मुहुस्त्वा
मनन्तकृष्णं वरदेशमीडे ॥ ४॥
अनन्तसंसार-समुद्रतार
नौकायितं श्रीपतिमाननाब्जम् ।
अनन्तभक्तैः परिदृश्यमान
मनन्तकृष्णं वरदेशमीडे ॥ ५॥
नमन्ति देवाः सततं यमेव
किरीटिनं गदिनं चक्रिणं तम् ।
वैखानसैः सूरिभिरर्चयन्त
मनन्तकृष्णं वरदेशमीडे ॥ ६॥
तनोति देवः कृपया वरान् यो
चिरायुषं भूतिमनन्यसिद्धिम् ।
तं देवदेवं वरदानदक्ष-
मनन्तकृष्णं वरदेशमीडे ॥ ७॥
कृष्णं नमस्कृत्य महामुनीन्द्राः
स्वानन्दतुष्टा विगतान्यवाचः ।
तं स्वानुभूत्यै भव-पाद्म-वन्द्य
मनन्तकृष्णं वरदेशमीडे ॥ ८॥
अनन्तकृष्णस्य कृपावलोका
दघंहर-ग्रामज-दीक्षितेन ।
सुसूक्तिमालां रचितां मनोज्ञां
गृह्णातु देवो वरदेशविष्णुः ॥
॥ इति अघंहर-ग्राम-वासिना अनन्तकृष्णवरदराजस्य
पार्श्ववर्तिना ब्रह्मश्री रङ्गस्वामि-दीक्षितेन विरचितं
अनन्त-कृष्ण-वरदराजाष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री अनन्तकृष्णवरदराजाष्टकम्
READ
श्री अनन्तकृष्णवरदराजाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
