अन्धककृतं पार्वतीस्तोत्रम् PDF संस्कृत
Download PDF of Andhakakrritamparvatistotram Sanskrit
Parvati Ji ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अन्धककृतं पार्वतीस्तोत्रम् संस्कृत Lyrics
|| अन्धककृतं पार्वतीस्तोत्रम् ||
अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् ।
पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥
अन्धकोवाच ।
नमामि देववल्लभामनादिमद्रिजामिमाम् ।
यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥ १॥
विभाति या शिवासने शिवेन साकमव्यया
हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् ।
यदन्तराखिलं जगज्जगन्ति यान्ति सङ्क्षयं
नमामि यत्र तामुमामशेषभेदवर्जिताम् ॥ २॥
न जायते न हीयते न वर्द्धते च तामुमां
नमामि या गुणातिगां गिरीशपुत्रिकामिमाम् ।
क्षमस्व देवि शैलजे कृतं मया विमोहितं
सुरासुरैर्नमस्कृतं नमामि ते पदाम्बुजम् ॥ ३॥
इत्थं भगवती दिवी भक्तिनम्रेण पार्वती ।
संस्तुता दैत्यपतिना पुत्रत्वे जगृहेऽन्धकम् ॥ ४॥
इति कूर्मपुराणे पूर्वभागे षोडशाध्यायान्तर्गतं
अन्धककृतं पार्वतीस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअन्धककृतं पार्वतीस्तोत्रम्
READ
अन्धककृतं पार्वतीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
