Misc

श्री अणु राघवेन्द्रस्तोत्रम्

Anuraghavendrastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री अणु राघवेन्द्रस्तोत्रम् ||

पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ १॥

दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे ।
श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे ॥ २॥

श्रीसुधीन्द्राब्धिसम्भूतान् राघवेन्द्रकलानिधीन् ।
सेवे सज्ज्ञानसौख्यार्थं सन्तापत्रयशान्तये ॥ ३॥ (सत्ज्ञान)

अघं द्रावयते यस्माद्वेङ्कारो वाञ्छितप्रदः ।
राघवेन्द्रयतिस्तस्माल्लोके ख्यातो भविष्यति ॥ ४॥

व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः
ब्रध्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ।
मौनीशव्यासराजादुदितकिसलयःपुष्पितोऽयं जयीन्द्रा-
दद्य श्रीराघवेन्द्राद्विलसति फलितो मध्वसिद्धान्तशाखी ॥ ५॥

मूकोऽपि यत्प्रसादेन मुकुन्दशयनायते ।
राजराजायते रिक्तो राघवेन्द्रं तमाश्रये ॥ ६॥

इति श्री अणुराघवेन्द्रस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्री अणु राघवेन्द्रस्तोत्रम् PDF

श्री अणु राघवेन्द्रस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App