|| अणुवायुस्तुतिः ||
चन्द्रविभूषणचन्द्रपुरोगैर्वन्द्यपदाम्बुरुहं पवमानम् ।
आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ १॥
प्राणगणाधिपतिं भुवि वाणीप्राणसमं दयया ह्यवतीर्णम् ।
आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ २॥
श्री हनूमन्तमनन्तभुजिष्यं लङ्घितसिन्धुमुदस्तमहीध्रम् ।
आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ३॥
भीषणदुष्टकुलान्तकभीमं भीममभीतिदमिष्टजनानाम् ।
आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ४॥
शान्तमनन्तनिशान्तसमाह्वे शान्तकुले किल जातम् ।
आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ५॥
॥ इति श्रीकल्याणीदेविविरचिता अणुवायुस्तुतिः समाप्ता ॥
Found a Mistake or Error? Report it Now