Misc

अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः

Ashtadiggajakrritamanidhamalingastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः ||

(शिवरहस्यान्तर्गते भीमाख्ये)
ऐरावतः (उवाच)
शान्तं शङ्कमतङ्गकान्तकमुमाकान्तं भजाम्यन्तिक-
स्वान्तानन्तमहान्तकोद्भवभयं किं वोपलक्ष्यं मम ।
विश्वाधीश्वर शाश्वतान्धकहरापारव्यथासंहर
घोरापारभवोरुसागरगदापारादि दुःखं हर ॥ ९॥

पुण्डरीकः (उवाच)
पाहि त्रिणेत्र सुचरित्र पवित्रगात्रं
पाह्यब्जमित्रनयनामलभूतिगात्र ।
मामीशशङ्खधवलेन्दुकलाललाम
पाहीश मामकधिया सकलेषु मित्र ॥ १४॥

वामन: (उवाच)
पाहीन्दिरारमणकारण तारणेड्य
चक्षुःश्रवाभरण कारणहीन शम्भो ।
माराङ्गसंहरण पापनिवारणेश
पाहीन्दुभूषणमहेश गणाग्रगण्य ॥ १९॥

कुमुदः उवाच ।
हे देवदेव जगदीश्वर पञ्चवक्त्र
विश्वम्भराधरणभूषण भीषणेश ।
गौरीमनोरमण सर्वशरण्य शम्भो
आतार्य तारण विभो चरणं नतोऽस्मि ॥ २३॥

अञ्जनः (उवाच)
सरसीरुहनाभवेद(वेत्तृ)वन्द्यं
स्फुरशम्बरवैरिलाञ्छनार्कम् ।
(वरशम्बरवैरिसंहरं हरं तम्) ।
भज भज मनसा शिवाधवां त्वं
भवहरमभयाय चेतसा त्वम् ॥ २७॥

पुष्पदन्तः (उवाच)
कुरु कुरु करुणां शशधरशिशुधर
अतिभयबहुभीतनागलोकरक्षम् ।
शशिहुतवहभानुनेत्रमद्रीश-
प्रियतनयानयनाब्ज भास्करं वन्दे ॥ ३१॥

सार्वभौमः उवाच ।
शङ्गं सङ्गहरं महेशमनधं मातङ्गचर्माम्बरम् ।
गङ्गातुङ्गतरङ्गरङ्गित जटाभारं भुजङ्गाङ्गदम् ॥ ३५॥

मधुमथनाक्षपदाम्बुजं महेशं ।
भज शम्भुं भवबन्धविमोचनाय ॥ ३६॥

सुप्रतीकः (उवाच)
श्रीकालकाल जितसर्वदितिप्रसूत
पातालमूलपदखेलन विश्वलील ।
पाह्यब्जजाच्युतशचीधवपूजिताङ्घ्रे
गौरीमनोहर विलासनिधानशील ॥ ४०॥

॥ इति शिवरहस्यान्तर्गते अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः PDF

अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App