Misc

अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः

Ashtadiggajakrritamanidhamalingastutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः ||

(शिवरहस्यान्तर्गते भीमाख्ये)
ऐरावतः (उवाच)
शान्तं शङ्कमतङ्गकान्तकमुमाकान्तं भजाम्यन्तिक-
स्वान्तानन्तमहान्तकोद्भवभयं किं वोपलक्ष्यं मम ।
विश्वाधीश्वर शाश्वतान्धकहरापारव्यथासंहर
घोरापारभवोरुसागरगदापारादि दुःखं हर ॥ ९॥

पुण्डरीकः (उवाच)
पाहि त्रिणेत्र सुचरित्र पवित्रगात्रं
पाह्यब्जमित्रनयनामलभूतिगात्र ।
मामीशशङ्खधवलेन्दुकलाललाम
पाहीश मामकधिया सकलेषु मित्र ॥ १४॥

वामन: (उवाच)
पाहीन्दिरारमणकारण तारणेड्य
चक्षुःश्रवाभरण कारणहीन शम्भो ।
माराङ्गसंहरण पापनिवारणेश
पाहीन्दुभूषणमहेश गणाग्रगण्य ॥ १९॥

कुमुदः उवाच ।
हे देवदेव जगदीश्वर पञ्चवक्त्र
विश्वम्भराधरणभूषण भीषणेश ।
गौरीमनोरमण सर्वशरण्य शम्भो
आतार्य तारण विभो चरणं नतोऽस्मि ॥ २३॥

अञ्जनः (उवाच)
सरसीरुहनाभवेद(वेत्तृ)वन्द्यं
स्फुरशम्बरवैरिलाञ्छनार्कम् ।
(वरशम्बरवैरिसंहरं हरं तम्) ।
भज भज मनसा शिवाधवां त्वं
भवहरमभयाय चेतसा त्वम् ॥ २७॥

पुष्पदन्तः (उवाच)
कुरु कुरु करुणां शशधरशिशुधर
अतिभयबहुभीतनागलोकरक्षम् ।
शशिहुतवहभानुनेत्रमद्रीश-
प्रियतनयानयनाब्ज भास्करं वन्दे ॥ ३१॥

सार्वभौमः उवाच ।
शङ्गं सङ्गहरं महेशमनधं मातङ्गचर्माम्बरम् ।
गङ्गातुङ्गतरङ्गरङ्गित जटाभारं भुजङ्गाङ्गदम् ॥ ३५॥

मधुमथनाक्षपदाम्बुजं महेशं ।
भज शम्भुं भवबन्धविमोचनाय ॥ ३६॥

सुप्रतीकः (उवाच)
श्रीकालकाल जितसर्वदितिप्रसूत
पातालमूलपदखेलन विश्वलील ।
पाह्यब्जजाच्युतशचीधवपूजिताङ्घ्रे
गौरीमनोहर विलासनिधानशील ॥ ४०॥

॥ इति शिवरहस्यान्तर्गते अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः PDF

अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App