Lakshmi Ji

अष्टलक्ष्मी स्तुति

Ashtalakshmi Stuti Hindi

Lakshmi JiStuti (स्तुति संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अष्टलक्ष्मी स्तुति (Ashtalakshmi Stuti PDF) ||

विष्णोः पत्नीं कोमलां कां मनोज्ञां
पद्माक्षीं तां मुक्तिदानप्रधानाम्।

शान्त्याभूषां पङ्कजस्थां सुरम्यां
सृष्ट्याद्यन्तामादिलक्ष्मीं नमामि।

शान्त्या युक्तां पद्मसंस्थां सुरेज्यां
दिव्यां तारां भुक्तिमुक्तिप्रदात्रीम्।

देवैरर्च्यां क्षीरसिन्ध्वात्मजां तां
धान्याधानां धान्यलक्ष्मीं नमामि।

मन्त्रावासां मन्त्रसाध्यामनन्तां
स्थानीयांशां साधुचित्तारविन्दे।

पद्मासीनां नित्यमाङ्गल्यरूपां
धीरैर्वन्द्यां धैर्यलक्ष्मीं नमामि।

नानाभूषारत्नयुक्तप्रमाल्यां
नेदिष्ठां तामायुरानन्ददानाम्।

श्रद्धादृश्यां सर्वकाव्यादिपूज्यां
मैत्रेयीं मातङ्गलक्ष्मीं नमामि।

मायायुक्तां माधवीं मोहमुक्तां
भूमेर्मूलां क्षीरसामुद्रकन्याम्।

सत्सन्तानप्राप्तिकर्त्रीं सदा मां
सत्त्वां तां सन्तानलक्ष्मीं नमामि।

निस्त्रैगुण्यां श्वेतपद्मावसीनां
विश्वादीशां व्योम्नि राराज्यमानाम्।

युद्धे वन्द्यव्यूहजित्यप्रदात्रीं
शत्रूद्वेगां जित्यलक्ष्मीं नमामि।

विष्णोर्हृत्स्थां सर्वभाग्यप्रदात्रीं
सौन्दर्याणां सुन्दरीं साधुरक्षाम्।

सङ्गीतज्ञां काव्यमालाभरण्यां
विद्यालक्ष्मीं वेदगीतां नमामि।

सम्पद्दात्रीं भार्गवीं सत्सरोजां
शान्तां शीतां श्रीजगन्मातरं ताम्।

कर्मेशानीं कीर्तिदां तां सुसाध्यां
देवैर्गीतां वित्तलक्ष्मीं नमामि।

स्तोत्रं लोको यः पठेद् भक्तिपूर्णं
सम्यङ्नित्यं चाष्ष्टलक्ष्मीः प्रणम्य।

पुण्यं सर्वं देहजं सर्वसौख्यं
भक्त्या युक्तो मोक्षमेत्यन्तकाले।

Read in More Languages:

Found a Mistake or Error? Report it Now

अष्टलक्ष्मी स्तुति PDF

Download अष्टलक्ष्मी स्तुति PDF

अष्टलक्ष्मी स्तुति PDF

Leave a Comment

Join WhatsApp Channel Download App