अष्टमहिषीयुतकृष्णस्तोत्रम् PDF संस्कृत
Download PDF of Ashtamahishiyuktakrrishnastotram Sanskrit
Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अष्टमहिषीयुतकृष्णस्तोत्रम् संस्कृत Lyrics
|| अष्टमहिषीयुतकृष्णस्तोत्रम् ||
हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते ।
तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥
अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित ।
सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥
जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज ।
शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥
नीलाय विलसद्भूषाजालायोज्ज्वलमालिने ।
लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥
जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे ।
मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते ॥ ५॥
बालानेत्रोत्सवानन्तलीलालावण्यमूर्तये ।
नीलाकान्ताय ते भक्तावालायाऽस्तु नमोनमः ॥ ६॥
भद्राय स्वजनाविद्यानिद्राविद्रावणाय वै ।
रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः ॥ ७॥
रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे ।
लक्षणापतये नित्यं भिक्षुश्लाघ्याय ते नमः ॥ ८॥
षोडशस्त्रीसहस्रेशं षोडशातीतमच्युतम् ।
ईडेत वादिराजोक्तप्रौढस्तोत्रेण सन्ततम् ॥ ९॥
इति श्रीमद्वादिराजयतिकृतं अष्टमहिषीयुतकृष्णस्त्रोत्रं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअष्टमहिषीयुतकृष्णस्तोत्रम्
READ
अष्टमहिषीयुतकृष्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
