Misc

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम्

Balanirgunamanasapuja Parabhavanastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम् ||

ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् ।
आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥

कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे ।
पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥

आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः ।
मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥

स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः ।
वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥ ४॥

हैमैराभरणैर्वा चमत्कृतिः का हिरण्यवर्णायाः ।
रत्नाचलवासिन्याः चिन्तामणिगेहगायास्ते ॥ ५॥

गन्धवती हि तनुस्ते गन्धाः किं नेशि पौनरुक्त्याय ।
पुष्करफलदानोत्कां पुष्करकुसुमेन पूजये किं त्वाम् ॥ ६॥

शमधनमूलधनं त्वं सकलेश्वरी भवसि धूपिता केन ।
दीपः कथं शिखावान् दीप्येत पुरः स्वयम्प्रकाशायाः ॥ ७॥

अमृतात्मकं निवेदितमशनं किं नाम नित्यतृप्तायाः ।
त्वय्याम्रेडितमेतत्ताम्बूलं यदिह सुमुखरागायाः ॥ ८॥

उपहारीभूयादिदमुमेऽद्य यन्मे विचेष्टितमशेषम् ।
नीराजयामि विद्युन्निभां कथं वा चिदाभासाम् ॥ ९॥

पुष्पाञ्जलिः कुतस्ते मूलप्रकृतिस्वरूपायाः ।
छत्रं नभोऽतिगायाः चामरमप्यविदितश्रमायास्ते ॥ १०॥

नृत्यं प्रथतां कथमिव चित्रं भायान्महानटपुरन्घ्र्याः ।
गीतं किं कलभाषणजितवाणीमधुरवीणायाः ॥ ११॥

वाद्यं डमरुभृदीशे वादयितुं तव पुरोऽस्ति का शक्तिः ।
अपरिच्छिन्नायास्ते जगदीश्वरि कः प्रदक्षिणविधिर्वा ॥ १२॥

स्युस्ते नमांसि कथमिव शङ्करि परितोऽपि विद्यमानायाः ।
वाचामगोचरीं त्वां वाचः प्रसरैः प्रसादयेयं वा ॥ १३॥

कस्मै वच्मि दशां मे कस्येदुग्घृदयमस्ति शक्तिर्वा ।
कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ १४॥

याचे नाभिनवं ते चन्द्रापीडे मदम्ब किञ्चिदपि ।
मह्यं प्रदेहि भगवति मदीयमेव स्वरूपमानन्दम् ॥ १५॥

भगवति बालतया वाऽभक्त्या वाप्यापदाकुलितया वा ।
मोहाविष्टतया वा मास्तु च ते मनसि यद्दुरुक्तं मे ॥ १६॥

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम् PDF

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App