Misc

बलराम कवचम्

Balaramakavacha Sanskrit Lyrics

Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| बलराम कवचम् (Balaram Kavacham PDF) ||

दुर्योधन उवाच

गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ॥
सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥ १॥

प्राड्विपाक उवाच

स्नात्वा जले क्षौमधरः कुशासनः पवित्रपाणिः कृतमन्त्रमार्जनः ॥
स्मृत्वाथ नत्वा बलमच्युताग्रजं संधारयेद्धर्मसमाहितो भवेत् ॥ २॥

गोलोकधामाधिपतिः परेश्वरः परेषु मां पातु पवित्रकीर्तनः ॥
भूमण्डलं सर्षपवद्विलक्ष्यते यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥ ३॥

सेनासु मां रक्षतु सीरपाणिर्युद्धे सदा रक्षतु मां हली च ॥
दुर्गेषु चाव्यान्मुसली सदा मां वनेषु सङ्कर्षण आदिदेवः ॥ ४॥

कलिन्दजावेगहरो जलेषु नीलाम्बरो रक्षतु मां सदाग्नौ ॥
वायौ च रामोऽवतु खे बलश्च महार्णवेऽनन्तवपुः सदा माम् ॥ ५॥

श्रीवासुदेवोऽवतु पर्वतेषु सहस्रशीर्षा च महाविवादे ॥
रोगेषु मां रक्षतु रौहिणेयो मां कामपालोऽवतु वा विपत्सु ॥ ६॥

कामात्सदा रक्षतु धेनुकारिः क्रोधत्सदा मां द्विविदप्रहारी ॥
लोभात्सदा रक्षतु बल्वलारिर्मोहात्सदा मां किल मागधारिः ॥ ७॥

प्रातः सदा रक्षतु वृष्णिधुर्यः प्राह्णे सदा मां मथुरापुरेन्द्रः ॥
मध्यन्दिने गोपसखः प्रपातु स्वराट् पराह्णेऽवतु मां सदैव ॥ ८॥

सायं फणीन्द्रोऽवतु मां सदैव परात्परो रक्षतु मां प्रदोषे ॥
पूर्णे निशीथे च दुरन्तवीर्यः प्रत्यूषकालेऽवतु मां सदैव ॥ ९॥

विदिक्षु मां रक्षतु रेवतीपतिर्दिक्षु प्रलम्बारिरधो यदूद्वहः ॥
ऊर्ध्वं सदा मां बलभद्र आरात्तथा समन्ताद्बलदेव एव हि ॥ १०॥

अन्तः सदाव्यात्पुरुषोत्तमो बहिर्नागेन्द्रलीलोऽवतु मां महाबलः ॥
सदान्तरात्मा च वसन् हरिः स्वयं प्रपातु पूर्णः परमेश्वरो महान् ॥ ११॥

देवासुराणां भयनाशनं च हुताशनं पापचयेन्धनानाम् ॥
विनाशनं विघ्नघटस्य विद्धि सिद्धासनं वर्मवरं बलस्य ॥ १२॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे
स्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ॥

Found a Mistake or Error? Report it Now

Download बलराम कवचम् PDF

बलराम कवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App