Misc

श्रीभोगापुरेशहनुमत्स्तोत्रम्

Bhogapureshahanumatstotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीभोगापुरेशहनुमत्स्तोत्रम् ||

प्रणमतु मम मूर्धा भारती प्राणभार्या
भ्रगभुजगपभर्गेन्द्रादिदेवर्षिवन्द्यम् ।
सकलसुरपतेऽङ्घ्रीन्दीवरद्वन्द्वमुग्रो
ग्रतररिपुकुलघ्नं नाथ भोगापुरेशम् ॥ १॥

यत इतरमृते त्वां मामनुग्राहकं द्राग्
सुपवनपविजाने नैव जाने न जाने ।
विधिकरनिकरेतश्चाधमं मां प्रपन्नं
ह्यव किल कृपया त्वां नौमि भोगापुरेशम् ॥ २॥

वरसदनुजिघृक्षात्तेन तेऽनल्पशक्ते
कपिवरवपुषाऽऽविर्भूय भोगापुरे भोः ।
विषयविषविशिष्टाशेषदोषान्तकं त्वां
निखिलनिजजनानां नौमि भोगापुरेशम् ॥ ३॥

असदसुमदतिव्यामोहनार्थं त्विहादा
वनिमिषमधुकेस्वीकर्तुमासप्तघस्रम् ।
उपयम महसुप्राग्वर्चलादोर्ग्रहं त्वां
निजजनकृतसेवां नौमि भोगापुरेशम् ॥ ४॥

स्वजनगणगते कौण्डिन्यगोत्रेऽथ कृष्णे
सति तव वरसेवां कर्तरीहाभ्यकार्षीत् ।
स्वजनवरदरूपं व्यक्तमञ्जोन्नतं त्वां
सदयहृदयभक्त्या नौमि भोगापुरेशम् ॥ ५॥

निजजयविजयौ यो जन्मात्मजत्विज
निजयदपज्जाम्युज्जनिं द्वन्द्वभाजम् ।
विविधवृजिनसङ्गान्मां समभ्युद्धरन्तं
कजजनुरनुजं त्वां नौमि भोगापुरेशम् ॥ ६॥

खलकदन कदाचिन्मूर्तिभेदेऽपि तत्रा
धिकतरनिजतेजो दर्शयन् शङ्कितान् स्वम् ।
अनुदिनमनुकम्पा मय्यलं नाथ तेऽस्तु
स्वविधिकरजजे त्वां नौमि भोगापुरेशम् ॥ ७॥

कपिकुलतिलकेशाशोत्तमं स्वाशु भग्नं
तव पदयुगलं मे सेवितुं प्रादित त्वम् ।
पदकमलनिषेवा नाथ ते मां हि नेष्य
त्युचितगतिमलं त्वां नौमि भोगापुरेशम् ॥ ८॥

नुतिगतपदमुक्तामालयेत्यष्टपद्य
प्रवरतमगुणिन्या मालिनी कृष्णजन्या ।
सुफलमिह हनूमन्मूर्तिरेषाप्यमुत्र
स्तुतिमथ पठते तामञ्जसा ते प्रदद्यात् ॥ ९॥

वाग्विट्विञ्चसहस्रकेन्द्रमुनिमुख्यादिप्रणीतार्हण
प्राण त्वं कृपया त्वदङ्घ्रिनिरतं नः पोषकं चान्वहम् ।
त्वद्भक्तस्वभिमन्त्रिताक्षतशिखं तत्कामितं पूरयन्
श्रीमद्वेङ्कटराजमाश्वव चिरं भोगेश तुभ्यं नमः ॥ १०॥

इति श्रीभोगापुरेशहनुमत्स्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीभोगापुरेशहनुमत्स्तोत्रम् PDF

श्रीभोगापुरेशहनुमत्स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App