Misc

श्रीब्रह्मानन्दस्तोत्रम्

Brahmanandastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीब्रह्मानन्दस्तोत्रम् ||

ब्रजेन्द्रनन्दाङ्गनभासकारिणः सखेति वित्तं प्रभुपादभावितैः ।
व्रजस्य राखालमनन्तसौभगं, नमामि शान्तं शिशुभाव सुन्दरम् ॥ १॥

मुहुर्मुहुः श्रीहरिनामविह्वलं सुनिर्मलं योगसुधाब्धि मज्जनात् ।
दयाघनं नाथमनाथपावनं नमामि दान्तं यतिवृन्दशेखरम् ॥ २॥

न रामकृष्णस्य शरीरसम्भवः स मानसाज्जात इतीह कीर्तितः ।
यथैव तातः सुरसङ्घपूजितस्तथैव पुत्रो नरपाल सेवितः ॥ ३॥

अनन्तभावालयदिव्यसागरं बहिः सुशान्तापिहितात्मभावम् ।
गताखिलाध्यात्म्य सुराज्यसम्पदं भजामि देवाद्य मनोजनन्दनम् ॥ ४॥

प्रफुल्लपङ्केरुहमध्यचारिणा बलानुजेनाङ्ग समूहगामिना ।
करैर्धृत नृत्यसुगीतरम्यकं नमो महाराजमतीन्द्रियप्रियम् ॥ ५॥

न साधनेनेह गतोऽसि भाविनीं वदन्ति सिद्धिं त्वमसौ गदाधराः ।
य तो भवादृक् कृतनित्यसिद्धिगो वशी क्षमा मङ्गलकृत्यविग्रहः ॥ ६॥

मनुष्यदेहं भजतापि दैवताद् वरीयसा शुद्ध विरागिणा त्वया ।
प्रभोर्नियोगेन सलीलमातनि क्रियातपोज्ञानसमाधिसाधनम् ॥ ७॥

गृहाण देव ! प्रणयेन सञ्चितान्योग्यभाजामपि जीवनानि नः ।
अथापि धेयानि मनांसि पादयोस्तवातिशुद्धत्रिदिवेनवन्द्ययोः ॥ ८॥

योऽध्यात्म्यसाम्राज्यबलेन लोकान् सम्भूय सर्वान् भगवद्विभावैः ।
आनन्दयत् काममजस्रमिष्टां स्तं देशिकेन्द्रं प्रणमामि भक्त्या ॥ ९॥

वैराग्यज्योतिरिद्धं गुरुगतहृदयं लोकचारिप्रविज्ञं
सङ्घाध्यक्षं विशालं क्षितिपतिसदृशं दिव्यदृष्टिं कृशानुम् ।
रामश्रीनामकीर्तिर्प्रचरणमनसा दक्षिणस्यां दिशन्तत्,
प्राच्यां भूमौ नमामः सततहितपरं नीतिवन्तं यमीन्द्रम् ॥ १०॥

लोके ख्यातिन्त्वतुल्यां बहुमितविभवं रूपशीलादियुक्तां
पातिव्रत्येस्थितां स्त्रीं सजनकजननीं स्वास्थ्यतारुण्यमाप्तम् ।
सन्त्यज्यस्वामशेषामहिविषयसदृशीं तूर्णमायन् विवेकं
वैराग्येणैकमीशं शरणमवगतो रामकृष्णं गुरुं त्वम् ॥ ११॥

ब्रह्मानन्द्रं वरेण्यं यतिवरमनिशं भावसिन्धौ निमग्नं
संसारार्त्तान् मनुष्यान् सहजकरुणया चेतयन्तं महान्तम् ।
शुद्धं शान्तं प्रकाशं विदितचितिसुखं रामकृष्णान्तरङ्गं
ध्यायेद् दिव्याकृतिं भोः कलिकलुषहरं चिद्घनं मूर्तिमन्तम् ॥ १२॥

इति ब्रह्मचारिमेधाचैतन्यविरचितं “श्रीब्रह्मानन्दस्तोत्रम्” सम्पूर्णम्

Found a Mistake or Error? Report it Now

Download श्रीब्रह्मानन्दस्तोत्रम् PDF

श्रीब्रह्मानन्दस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App