बुधादिभिः कृतं शिवपार्वतीस्तोत्रम् PDF संस्कृत
Download PDF of Budhadibhih Krritam Shivaparvati Stotram Sanskrit
Parvati Ji ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
बुधादिभिः कृतं शिवपार्वतीस्तोत्रम् संस्कृत Lyrics
|| बुधादिभिः कृतं शिवपार्वतीस्तोत्रम् ||
बुधस्तुष्टाव प्रथममिला च तदनन्तरम् ।
ततः पुरूरवाः पुत्रो गौरीं देवीं च शङ्करम् ॥ १०३॥
बुध उवाच ।
यौ कुङ्कुमेन स्वशरीरजेन स्वभावहेमप्रतिमौ सरूपौ ।
यावर्चितौ स्कन्दगणेश्वराभ्यां तौ मे शरण्यौ शरणं भवेताम् ॥ १०४॥
इलोवाच ।
संसारतापत्रयदावदग्धाः शरीरिणो यौ परिचिन्तयन्तः ।
सद्यः परां निर्वृतिमाप्नुवन्ति तौ शङ्करौ मे शरणं भवेताम् ॥ १०५॥
आर्ता ह्यहं पीडितमानसा ते क्लेशादिगोप्ता न परोऽस्ति कश्चित् ।
देव त्वदीयौ चरणौ सुपुण्यौ तौ मे शरण्यौ शरणं भवेताम् ॥ १०६॥
पुरूरवा उवाच ।
ययोः सकाशादिदमभ्युदैति प्रयाति चान्ते लयमेव सर्वम् ।
जगच्छरण्यौ जगदात्मकौ तु गौरीहरौ मे शरणं भवेताम् ॥ १०७॥
यौ देववृन्देषु महोत्सवे तु पादौ गृहाणेश गिरीशपुत्र्याः ।
प्रोक्तं धृतौ प्रीतिवशाच्छिवेन तौ मे शरण्यौ शरणं भवेताम् ॥ १०८॥
इति ब्रह्मपुराणे अष्टाधिकशततमाध्यायान्तर्गतं
बुधादिभिः कृतं शिवस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowबुधादिभिः कृतं शिवपार्वतीस्तोत्रम्
READ
बुधादिभिः कृतं शिवपार्वतीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
