Misc

श्रीचन्द्रशेखरगुरु भुजंग स्तोत्रम्

Chandrashekharaguru Bhujanga Stotram Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीचन्द्रशेखरगुरु भुजंग स्तोत्रम् ||

क्षितौ वेगवत्यास्तटे काञ्चिमध्ये
महापुण्यदेशे सुसूक्ष्मं ज्वलन्तम् ।
नमत्सूरिवृन्दं चिदानन्दकन्दं
भजे कामकोटीगुरुं योगिवर्यम् ॥ १॥

सुधास्यन्दिवक्त्रं कृपास्यन्दिनेत्रं
समस्तार्तबन्धुं मुदा पूर्णसिन्धुम् ।
सदा दिव्यदृष्ट्या स्वभक्तानवन्तं
भजे कामकोटीगुरुं योगिवर्यम् ॥ २॥

गले रक्तहारं मुखे चारुहासं
करे वेणुदण्डं ललाटे त्रिपुण्ड्रम् ।
नतानां जनानां भवध्वंसहेतुं
भजे कामकोटीगुरुं योगिवर्यम् ॥ ३॥

तमः क्लेश मूलोपघाते समर्थं
पृथिव्यां प्रशस्तं तडित्तुल्यनेत्रम् ।
स्फुरत्कान्ति हेमाब्ज तुल्याङ्घ्रि युग्मं
भजे कामकोटीगुरुं योगिवर्यम् ॥ ४॥

जगत्प्राणिजातेह्यनुस्यूतमेकं
त्रयीमौलिवेद्यं महावाक्यसारम् ।
चिदेवाहमस्मीत्यखण्डैक्यविद्यां
सदा बोधयन्तं भजे योगिवर्यम् ॥ ५॥

सदानन्दमूर्ते भवक्लेशहारिन्
मृषा स्वप्नतुल्यं मरीच्यम्बुकल्पम् ।
भ्रमेणैव सिद्धं भवाब्धिं तरीतुं
प्लवं ज्ञानरूपं गुरो मे प्रयच्छ ॥ ६॥

भवत्चारु कारुण्य वैमल्यमन्द-
स्मितानन्ददीप्ति प्रगल्भप्रवाहः ।
अघं मे धुनोतु सुखं मे तनोतु
निजानन्दरूपं ममाविष्करोतु ॥

इति श्रीब्रह्मेन्द्रसरस्वतीस्वामीविरचितं
श्रीचन्द्रशेखरगुरुभुजङ्गस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीचन्द्रशेखरगुरु भुजंग स्तोत्रम् PDF

श्रीचन्द्रशेखरगुरु भुजंग स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App