Misc

देवर्षयकृता श्रीचतुर्भुजस्तुतिः

Chaturbhujastutihdevarshayakrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| देवर्षयकृता श्रीचतुर्भुजस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये ।
अनादये गणेशाय विघ्नेशाय नमो नमः ॥ ३५॥

परेशाय परेषां च पतये परमात्मने ।
विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ ३६॥

लम्बोदराय सर्वेषामुदरस्थाय ते नमः ।
महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ ३७॥

क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे ।
शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥ ३८॥

गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप ।
ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥ ३९॥

न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः ।
चतुर्षु ते पञ्चमाय हेरम्बाय नमो नमः ॥ ४०॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
एकदन्ताय देवायासुराय ते नमो नमः ॥ ४१॥

अनाथानामनाथाय सनाथानां सनाथक ।
ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥ ४२॥

ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे ।
देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥ ४३॥

किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् ।
अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥ ४४॥

एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः ।
स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥ ४५॥

(फलश्रुतिः)
चतुर्भुज उवाच ।
वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् ।
दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥ ४६॥

स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् ।
पठतां श‍ृण्वतां चैव भयनाशकरं परम् ॥ ४७॥

विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः ।
धनधान्यादिकं चान्ते मल्लोकं पठनात् परम् ॥ ४८॥

इति देवर्षयकृता श्रीचतुर्भुजस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download देवर्षयकृता श्रीचतुर्भुजस्तुतिः PDF

देवर्षयकृता श्रीचतुर्भुजस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App