|| श्रीचिदम्बरेशस्तुतिः ||
कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्धदेहम् ।
कालान्तकं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥ १॥
विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ २॥
विश्वेश्वरं नित्यमनन्तरूपं
बालेन्दुचूडं सुरवन्द्यपादम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ३॥
विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं सुरवैरिशत्रुम् ।
कुबेरमित्रं जगदेकपात्रं
चिदम्बरेशं हृदि भावयामि ॥ ४॥
कैलासवासं जगतामधीशं
मुरारिमित्रं पुरुहूतवन्द्यम् ।
महेशमूर्तिं सुरसेव्यमानं
चिदम्बरेशं हृदि भावयामि ॥ ५॥
कर्पूरगात्रं कमनीयपात्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पशत्रुं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥ ६॥
त्वमेव बन्धुस्त्वयि भाति सर्वं
अनेकरूपं परमन्त्रमेकम् ।
पिनाकपाणिं भयनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ७॥
कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ ८॥
॥ इति श्रीचिदम्बरेशस्तुतिः सम्पूर्णा ॥
Found a Mistake or Error? Report it Now