|| श्रीदाक्षायणीस्तोत्रम् ||
गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी
श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी ।
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता
रम्भोरूः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १॥
दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी
लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २॥
मध्येसुधाब्धि मणिमण्टपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
देवीं भजामि दृढबुद्धतलेडजिह्वां (?) ॥ ३॥
सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः
ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् ।
शङ्खं चक्रधनूंषि चारु(चक्रमथो धनुश्च) दधतीं
बिभ्रा(दिव्या) युधां तर्जनीं
वामे शक्तिमसिं महेषुभितरे श्रीशक्तिशूलं भजे ॥ ४॥
किंशुकच्छदविशाललोचनीं किञ्च नागरसवल्लिसंयुताम् ।
अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५॥
आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख-
शक्तित्रिशूलशरचापधरा पुरास्तात् ।
गच्छ त्वमम्ब दुरिते पथि दुष्टसत्त्वात्
संरक्षणाय सततं मम देवि दुर्गे ॥ ६॥
दिनकरशशिनेत्रे दिव्यते (देव्युमे) रुद्रगात्रे
घनसमुचितगात्रे कल्पवल्लीसवित्रि ।
अनवरतपवित्रे ह्यम्बिके कालरात्रे
मुनिविनुतचरित्रे मोहने शैलपुत्रि ॥ ७॥
जलरुहसमपाणे सत्कलाबाणतूणे
सुललितमुखवीणे सर्वविद्याप्रवीणे ।
अलघुनुतपुराणे ह्यर्थभाषाधुरीणे-
प्यलिसमुदयवेणि ग्रावजे शम्भुराज्ञि ॥ ८॥
विविधगुणकराली विश्वतत्त्वावराली
शिवहृदयसमेली स्वयभवामथाली (?) ।
नवमणिमयमौली नागरक्षोविभाली
धवलभसितधूलीधारिणी भद्रकाली (?) ॥ ९॥
जननमरणहारी सर्वलोकोपकारी
जननजतविहारी चारुवक्षोरुहारी (?) ।
कनकगिरिविहारी कालगर्वोपहारी
घनफणधरहारी कालि कौमारि गौरि (?) ॥ १०॥
मलहरुनिमतङ्गी मन्त्रयन्त्रप्रसङ्गी
वलयितसुभुजङ्गी वाङ्मयी मौनसङ्गी (?) ।
विलयभयविहङ्गी विश्वतो रक्षपाङ्गी
कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी (?) ॥ ११॥
अम्ब त्वदाराधनतत्पराणां
मुखारविन्दे सरसं कवित्वम् ।
करारविन्दे वरकल्पवल्ली
पदारविन्दे नृपमौलिराजिः ॥ १२॥
पुरवैरिधात्रि मुरवैरिपूजिते
जलदालिवेणि फलदायिके शिवे ।
सदयं ससम्पदुदयं कुरुष्व मे
जगदम्ब शाम्भवि कदम्बवासिनि ॥ १३॥
विजयविभवदात्री विश्वकल्याणगात्री
मधुकरशुभवेणी मङ्गलापासवाणी ।
शतमखविधिगीता शाम्भवी लोकमाता
कलिरिपुजयघोटी कामकोटिः सहाया ॥ १४॥
मधुपमहितमौर्वी मल्लिकामञ्जुलोर्वी-
धरपतिवरकन्या धर्मभूतेषु धन्या ।
मणिमयघनवीणा मञ्जरीदिव्यबाणा
कलिरिपुजयघोटी कामकोटिः सहाया ॥ १५॥
अम्ब त्वदंशोरणुरंशुमाली
तवैव मन्दस्मितबिन्दुरिन्दुः ।
यादृच्छिकं संल्लपितं त्रयी ते
पुम्भावलीला पुरुषत्र यान्ति (?) ॥ १६॥
दर्वेदनानभवनैः परिदयमाना
निर्वेदमेति नितरां कलना मदीया ।
पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पे
सर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७॥
यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ।
पाशपाणि सणिपाणि भावये चापपाणि शरपाणि दैवतम् ॥ १८॥
ऐश्वर्यमष्टविधमष्टदिगीश्वरत्व-
मष्टात्मता च फलमाश्रयिणामितीव ।
मुद्रां वहन् घनधियो वटमूलवासी
मोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९॥
गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पातकं सकतति क्षमावल्लभो दासति ।
मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसेवनात्
त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रिये ॥ २०॥
पातय वा पाताले स्थापय वा सकललोकसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१॥
आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।
तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२॥
मातर्मे मधुकैटभन्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३॥
रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननां
मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् ।
देवीं दिव्यरसान्नपात्रकरकामम्भोजदर्वीकरां
ध्याये शङ्करवल्लभां त्रिणयनामन्बां सदानप्रदाम् ॥ २४॥
उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे
मूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् ।
बिभ्राणां करयोः सुवर्णचषकं बीजं च शाल्युद्भवं
भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५॥
वामे पायसपूर्णहेमकलशं पाणौ वहन्ती मुदा
चान्ये पाणितले सुवर्णरचितां दर्वी च भूषोज्ज्वलाम् ।
अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणा
श्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६॥
करेण चञ्चन्मणिकङ्कणेन
दर्वी दधानां धवलान्नपूर्णाम् ।
कदावलोके करुणालवालां
काशीपुरीकल्पलतां भवानीम् ॥ २७॥
या माणिक्यमनोज्ञहारविभुना (सहिता) सिन्दूरभासान्विता
तारानायकशेखरा त्रिनयना पीनस्तनोद्भासिता ।
बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वला
सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८॥
माणिक्यनूपुरविभूषितपादपद्मां
हस्तारविन्दकरुणारसपूर्णदर्वीम् ।
सन्ध्यारुणांशुकधरां नवचन्द्रचूडां
मन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९॥
इति श्रीदाक्षायणीस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now