श्री दत्तात्रेय वज्र कवच PDF संस्कृत
Download PDF of Dattatreya Wajjra Kavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्री दत्तात्रेय वज्र कवच संस्कृत Lyrics
॥ श्री दत्तात्रेय वज्र कवचम् ॥
॥ ऋषय उवाच ॥
कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥
॥ व्यास उवाच ॥
शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥
गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् ।
दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥
रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् ।
मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥
॥ श्री देव्युवाच ॥
देवदेव महादेव लोकशङ्कर शङ्कर ।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥ ५॥
तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ ६॥
इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥ ७॥
मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥ ८॥
ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।
क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९॥
तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् ।
वर्ध्यमानं महाव्याघ्रं नखदण्ष्ट्राभिरावृतम् ॥ १०॥
अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।
अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥ ११॥
पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः ।
एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥ १२॥
॥ श्री पार्वत्युवाच ॥
किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।
इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥ १३॥
॥ श्री शङ्कर उवाच ॥
गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।
अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥ १४॥
मया सम्यक् समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ १५॥
समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ १६॥
प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ १७॥
दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥ १८॥
दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।
तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥ १९॥
तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः ।
सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥ २०॥
मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने ।
स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥ २१॥
मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२॥
अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः ।
तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥ २३॥
दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।
यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ २४॥
दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५॥
॥ श्री दत्तात्रेय उवाच ॥
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।
तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥ २६॥
स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ २७॥
अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य,
किरातरूपी महारुद्र ऋषिः, अनुष्टुप् छन्दः,
श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः,
क्रौं कीलकं, ॐ आत्मने नमः ।
ॐ द्रीं मनसे नमः । ॐ आं द्रीं श्रीं सौः
ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः ।
श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ।
॥ अथ ध्यानम् ॥
जददङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।
दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥
कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।
दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥
वाराणसीपुरस्नायी कोल्हापुरजपादरः ।
माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥
इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः ।
वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥
स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः ।
भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥
हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः ।
मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥
विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।
पृथुलश्रोणिललितो विशालजघनस्थलः ॥
रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः ।
गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥
रक्तारविन्दसदृशरमणीयपदाधरः ।
चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥
ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः ।
सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥
वामहस्तेन वरदो दक्षिणेनाभयङ्करः ।
बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥
त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः ।
सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥
भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥
एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।
मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥
दिगम्बरं भस्मसुगन्धलेपनं चक्रं
त्रिशूलं डमरुं गदायुधम् ।
पद्मासनं योगिमुनीन्द्रवन्दितं
दत्तेति नामस्मरणेन नित्यम् ॥
ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः ।
भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ २८॥
कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।
ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ २९॥
नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।
जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ३०॥
कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् ।
स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम्॥३१॥
स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः ।
जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥ ३२॥
कादिठान्तद्वादशारपद्मगो मरुदात्मकः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ३३॥
पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।
हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ ३४॥
डकारादिफकारान्तदशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ३५॥
वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् ।
कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ ३६॥
वकारादिलकारान्तषट्पत्राम्बुजबोधकः ।
जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥ ३७॥
सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु ।
वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥ ३८॥
मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।
पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥ ३९॥
जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।
सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ ४०॥
चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु ।
मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ ४१॥
अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।
शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ ४२॥
मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ४३॥
बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।
गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥ ४४॥
भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् ।
प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥ ४५॥
सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः ।
पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥ ४६॥
प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।
याम्यां धर्मात्मकः पातु नैऋत्यां सर्ववैरिहृत् ॥ ४७॥
वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।
कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ ४८॥
उर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः । ॐ द्रां ।
॥ मन्त्र जपः ॥
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ।
ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ।
रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥ ४९॥
एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ।
वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥ ५०॥
त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।
सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥ ५२॥
इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः ।
दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ ५३॥
भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् ।
सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ ५४॥
इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ ५५॥
॥ पार्वत्युवाच ॥
एतत्कवचमाहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥ ५६॥
॥ श्री शिव उवाच ॥
उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् ।
श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ ५७॥
धर्मार्थकाममोक्षाणामिदमेव परायणम् ।
हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥ ५८॥
पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।
वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥ ५९॥
सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।
बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥ ६०॥
सर्वसन्तोषकरणं सर्वदुःखनिवारणम् ।
शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ ६१॥
अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ ६२॥
अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥ ६३॥
विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।
मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥ ६४॥
ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः ।
सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥ ६५॥
नवग्रहसमुद्भूता महापातकसम्भवाः ।
सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥ ६६॥
अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ ६७॥
अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥ ६८॥
लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः ।
विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ॥ ६९॥
कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ।
औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ॥ ७०॥
श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ।
ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ॥ ७१॥
ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ।
धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ॥ ७२॥
देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ।
नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ॥ ७३॥
युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ।
कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ॥ ७४॥
ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ।
यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते ॥ ७५॥
तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ।
इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभं ॥ ७६॥
यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् ।
एवं शिवेन कथितं हिमवत्सुतायै प्रोक्तं ॥ ७७॥
दलादमुनयेऽत्रिसुतेनपूर्वम् यः कोऽपि वज्रकवचं ।
पठतीह लोके दत्तोपमश्चरति योगिवरश्चिरायुः ॥ ७८॥
॥ इति श्री दत्तात्रेय वज्र कवच स्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री दत्तात्रेय वज्र कवच

READ
श्री दत्तात्रेय वज्र कवच
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
