श्री जगन्नाथ अष्टकम
|| श्री जगन्नाथ अष्टकम PDF || कदाचित्कालिन्दी तटविपिनसंगीत करबो मुदविरि नारीवदनकमलास्वादमधुपः रमाशम्भुब्रह्माऽमरपतिगणेशाऽर्चितपदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते सदा श्रीमद्बृन्दावनवसतिलीलापरिचयो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन्प्रासादान्तः सहजबलभद्रेण बलिना सुभद्रामध्यस्थः सकलसुरसेवावसरदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ कृपापारावारः सजलजलदश्रेणिरुचिरो रमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथस्वामी नयनपथगामी भवतु…