Download HinduNidhi App
Misc

केतु कवचम्

Ketu Kavacham Marathi

MiscKavach (कवच संग्रह)मराठी
Share This

|| केतु कवचम् ||

ध्यानं

केतुं करालवदनं
चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं
ध्वजाकारं ग्रहेश्वरम् ॥ 1 ॥

। अथ केतु कवचम् ।

चित्रवर्णः शिरः पातु
भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिंगलाक्षः
श्रुती मे रक्तलोचनः ॥ 2 ॥

घ्राणं पातु सुवर्णाभश्चिबुकं
सिंहिकासुतः ।
पातु कंठं च मे केतुः
स्कंधौ पातु ग्रहाधिपः ॥ 3 ॥

हस्तौ पातु सुरश्रेष्ठः
कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु
मध्यं पातु महासुरः ॥ 4 ॥

ऊरू पातु महाशीर्षो
जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः
सर्वांगं नरपिंगलः ॥ 5 ॥

फलश्रुतिः

य इदं कवचं दिव्यं
सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च
धारणाद्विजयी भवेत् ॥ 6 ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download केतु कवचम् PDF

केतु कवचम् PDF

Leave a Comment