श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्
|| श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम् || नमस्कृत्य प्रवक्ष्यामि देवदेवं जगद्गुरुम् । नाम्नामष्टोत्तरशतं चैतन्यस्य महात्मनाः ॥ १॥ विश्वम्भरो जितक्रोधो मायामानुषविग्रहः । अमायी मायिनां श्रेष्ठो वरदेशो द्विजोत्तमः ॥ २॥ जगन्नाथप्रियसुतः पितृभक्तो महामनाः । लक्ष्मीकान्तः शचीपुत्रः प्रेमदो भक्तवत्सलः ॥ ३॥ द्विजप्रियो द्विजवरो वैष्णवप्राणनायकः । द्विजातिपूजकः शान्तः श्रीवासप्रिय ईश्वरः ॥ ४॥ तप्तकाञ्चनगौराङ्गः सिंहग्रीवो महाभुजः । पीतवासा रक्तपट्टः षड्भुजोऽथ चतुर्भुजः ॥ ५॥ द्विभुजश्च…