|| देवैः कृतं कपिलमुनिस्तोत्रम् ||
देवा ऊचुः ।
नमस्ते योगिने तुभ्यं साङ्ख्ययोगरताय च ।
नररूपप्रतिच्छन्नजिष्णवे विष्णवे नमः ॥ ८२॥
नमः परेशभक्ताय लोकानुग्रहहेतवे ।
संसारारण्यदावाग्ने धर्मपालनसेतवे ॥ ८३॥
महते वीतरागाय तुभ्यं भूयो नमो नमः ।
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान् ॥ ८४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे अष्टाध्यायान्तर्गतं
देवैः कृतं कपिलमुनिस्तोत्रं समाप्तम् ।
Found a Mistake or Error? Report it Now