|| श्रीदेवमुरारिदेवाचार्याष्टकम् ||
जनानां मुक्तिदं भक्त्या खरारेजनिकीपतेः ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ १॥
श्रीमदानन्दभाष्यज्ञं रामब्रह्मावबोधकम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ २॥
रामानन्दयतीन्द्रस्य धर्माम्भोधेः सुधाकरम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ३॥
शिष्याणां मन्त्रमालादिदिव्य संस्कारकारकम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ४॥
सम्प्रदायरहस्यानां भव्यव्याख्यानकारकम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ५॥
जेतारं वादिवृन्दस्य सिद्धिदं सिद्धभूपतिम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ६॥
भक्तिदं भुक्तिदं चाथ सीतारामप्रपत्तिदम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ७॥
श्रीरामतारकं दत्त्वा संसाराम्बुधितारकम् ।
वन्दे देवमुरारिं च द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीदेवमुरारिदेवाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now