गजाननस्तोत्रं देवर्षिकृतम् PDF संस्कृत
Download PDF of Devarshikritam Gajananastotram Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
गजाननस्तोत्रं देवर्षिकृतम् संस्कृत Lyrics
|| गजाननस्तोत्रं देवर्षिकृतम् ||
श्रीगणेशाय नमः ॥
मुद्गल उवाच –
शान्ति-रूप-धरं लोभं दृष्ट्वा देवर्षयोऽमलाः ।
गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥
गजाननं पूजयित्वा विधानेन सुरर्षयः ।
पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥
(सुरर्षय ऊचुः -)
देवर्षय ऊचुः । (मुद्गल उवाच ।)
विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदम् तम् ।
अमेयसांख्येन च लक्ष्मीशं गजाननं भक्तियुतं भजामः ॥ १॥
मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकारहीनं सकलांमकं वै गजाननं भक्तियुतं भजामः ॥ २॥
अमेय रूपं हृदि संस्थितं तं ब्रह्माऽहमेकं भ्रमनाशकारम् ।
अनादि-मध्यान्तमपाररूपं गजाननं भक्तियुतं भजामः ॥ ३॥
जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् ।
अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुतं भजामः ॥ ४॥
न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् ।
न खे गतं पंचविभूतिहीनं गजाननं भक्तियुतं भजामः ॥ ५॥
न विश्वगं तैजसगं न प्राज्ञं समष्टि-व्यष्टिस्थ-मनन्तगं तम् ।
गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुतं भजामः ॥ ६॥
गणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी ।
सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्तियुतं भजामः ॥ ७॥
अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुतं भजामः ॥ ८॥
यदि त्वया नाथ! घृतं न किंचित्तदा कथं सर्वमिदं भजामि ।
अतो महात्मानमचिन्त्यमेवं गजानन भक्तियुतं भजामः ॥ ९॥
सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं गजाननं भक्तियुतं भजामः ॥ १०॥
सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् ।
अनन्तबाहु मूषकध्वजं तं गजाननं भक्तियुतं भजामः ॥ ११॥
सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् ।
द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्तियुतं भजामः ॥ १२॥
चतुःपदार्था विविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै गजाननं भक्तियुतं भजामः ॥ १३॥
महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं गजाननं भक्तियुतं भजामः ॥ १४॥
रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुतं भजामः ॥ १५॥
महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजरूपं गजाननं भक्तियुतं भजामः ॥ १६॥
शिवादि-देवैश्च खगैश्च वन्द्यं नरैर्लता-वृक्ष-पशुप्रमुख्यैः ।
चराऽचरैर्लोक-विहीनमेवं गजाननं भक्तियुतं भजामः ॥ १७॥
मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथाऽपि देवं पुरसंस्थितं तं गजाननं भक्तियुतं भजामः ॥ १८॥
वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव ।
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुतं भजामः ॥ १९॥
गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छन्ति तेनैव गजाननं तं गजाननं भक्तियुतं भजामः ॥ २०॥
पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै ।
विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्तियुतं भजामः ॥ २१॥
मुद्गल उवाच ॥
एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२॥
गजानन उवाच ॥
वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्तो दास्यामि वांछितं परम् ॥ २३॥
गजाननवचः श्रुत्वा हर्षयुक्ता सुरर्षयः ।
जगुस्तं भक्तिभावेन साश्रुनेत्रा प्रजापते ॥ २४॥
देवर्षय ऊचुः ॥
यदि गजानन स्वामिन् प्रसन्नो वरदोऽसि मे ।
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५॥
लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
तया गजदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २६॥
अधुना देवदेवेश! कर्मयुक्ता द्विजातयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७॥
स्व-स्वधर्मरताः सर्वे कृतास्त्वया गजानन!।
अतः परं वरं ढुण्ढे याचमानः किमप्यहो!॥ २८॥
यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
तदा संकटहीनान् वै कुरू त्वं नो गजानन!॥ २९॥
एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् ।
तानुवाच सप्रीत्यात्मा भक्ताधीनः स्वभावतः ॥ ३०॥
गजानन उवाच ॥
यद्यच्च प्रार्थितं देवा मुनयः सर्वमंजसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१॥
भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्ति-प्रदायकम् ॥ ३२॥
पुत्र-पौत्र-प्रदं पूर्णं धन-धान्य-प्रवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३॥
मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४॥
संग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनादिषु च प्रशस्तं तद् भविष्यति ॥ ३५॥
कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६॥
एकविंशति वारं तत् चैकविंशद्दिनावधिम् ।
प्रयोगं यः करोत्येव सर्वसिद्धियुतो भवेत् ॥ ३७॥
धर्माऽर्थकाम-मोक्षाणां ब्रह्मभूतस्य दायकम् ।
भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ ३८॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥
इति मुद्गलपुराणान्तर्गतं गजाननस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगजाननस्तोत्रं देवर्षिकृतम्
READ
गजाननस्तोत्रं देवर्षिकृतम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
