|| श्रीदेविकालहरी ||
श्रियामायानं यद्विमलवसने सर्वजगतां-
क्रियास्पाम्बुध्नन्ते नियत हविषां पावनविधौ ।
धियां पावित्रीयोऽवनिविदिततीर्थं वनमयं-
वपुश्चेदं शर्वे सकलमशुभं वारयतु नः ॥ १॥
शिवार्डाङ्गे वासो विधिजतनयायाः प्रथमतो
गृहन्ते कैलासे रजितभुवनभ्राजिततटे ।
अमर्त्याऽऽक्रीडे बाऽप्यवनिधरपुत्र्यास्सुरनते-
सरिद्रूपञ्चैतद्धरतु जगतां पापमखिलम् ॥ २॥
इदङ्कर्म्माधानम्भुवनजगतौ खण्डमखिलं
पवित्रीकर्तुं वै नवसलिलबिम्बं विदधती ।
प्रभासे शुद्धे च द्रुमवति सुघाटे सुरपतेः-
समुत्तीर्णाधाराभरणवसना शैवशिखरात् ॥ ३॥
सरिद्रूपन्धत्वाजनि वृजिननाशङ्करु शिवं-
जनानां मद्राणां गृहतनयवित्ताप्तमनसाम् ।
उवाचेदं शम्भुर्मृदुतरमनोज्ञं मधुवचः-
भवानीमापन्नां विनयनतदेहां निजगिरौ ॥ ४॥
शिवाशम्मोराज्ञां परिणतगुणस्यामरगणैः-
गृहीत्वा कैलासाज्जनकुशलभावाभिजननी ।
समुत्तीर्णादृष्ट्वा हरशिरसि जातां सुरनदीं-
दधौ रूपम्भव्यं वनमयवपूर्दाचिकमिदम् ॥ ५॥
तदाशम्भूरूपं मुनिवरनृतं लैङ्गमधिकं-
दधारोच्चैस्तीरे भुवनवनशैलद्युतिकरम् ।
वृषाद्यैर्देवेशैर्न मितवदनैर्बन्धमभितो-
भवानी व्याश्लेषादमितमहिमाशङ्कितमनाः ॥ ६॥
यदा चैन्द्रादघाटादचलदमलं वारिनिचयं
नुतिङ्गौर्य्यश्चिक्रुर्मुनिवरसमूहाः समुचिताम् ।
तदा वीणानादध्वनितमुरजैः किन्नरगणैः-
स्वरैश्चेदम्भद्रं -त्रिदशवरवध्वा परिजगुः ॥ ७॥
यदाविर्भूतन्ते द्यतिधरपदाद्दाविकपयो-
जनानामज्ञानां शमलभवतापोपशमनम् ।
निषेव्यन्तत्प्राज्ञैर्दिविजनमितन्नो हृदि सदा-
वसत्वेवं चक्रुर्नतिमखिलदेवाः श्रुतिधराः ॥ ८॥
समृद्धं- स्वामित्वं परिजनवृतं त्यज्य सहसा-
जननयास्तत्वानां मृदुलतटवासाऽमलदृशाम् ।
पयस्तेस्वादीयो विमलतरमातृप्तिपिबतां-
मृषायन्ते, सद्यः सुरवरपदेव्योऽपि विविधाः ॥ ९॥
स्पृशन् यस्सौगन्ध्यन्नवसुमनसां धीरपवन –
स्त्वदीयानां प्रावृङ्जनितलहरीणां व्यतिकरात् ।
पुनातीमां पूतस्त्ववनिमखिलां स्वर्ग सहितां-
निनादोऽपान्ते यः शमयति खलूच्चैर्यमरुतम् ॥ १०॥
अमी मातर्धन्याः खगमृगगणां दाविकतटे-
पयः पूतं पीत्वा शमितदुरिता दिव्यवपुषः ।
व्रजन्त्यन्ते शान्तास्त्रिदशवरवृन्दप्रमुदिताः-
महन्माहेन्द्रं ते निबिडतरुरम्यं वनमदः ॥ ११॥
अनूरौ स्नान्तीनां जनपदवधूनां घनकुचं
स्थितं सौगन्ध्यं यन्मृगमदयुतं दाविकवने ।
वलन्त्यन्तस्ते तन्मृतमृगसमूहा दिवमिता
स्तवैतत्प्राकाम्यं जननि गदितुन्नार्हति विधिः ॥ १२॥
त्वदम्बूनां नाम स्मरति हृदये दाविकमिति-
जनः पावित्रीयान्भवति शतपापैरपि वृतः ।
अहो चालं वासो जननि तव तीरे वनमहो
जनोद्धारं बद्धादृढपरिकरं त्वङ्कुरु भवात् ॥ १३॥
श्रितोऽपान्तेमातर्विषयविषतृष्णावृतचिदां
अदृश्यः पाताले त्वमितवलवल्यादिभिरपि ।
कफादिव्यावर्तं वदनविवरं जातु विशतां-
शरीरान्ते तावत्यरमफलदो नोऽपि भवतु ॥ १४॥
पिनाकीकैलाशे पदविधुतिभिर्नृत्यति मुदा-
विभुश्शेतामब्धौ भुजगमृदुभोगोऽपि शयने ।
विधातात्रैपृष्टे त्वविरतसमाधिर्भवतु वा
तदौदास्यन्दृष्ट्वा जननि तव तीरं ह्यपगतः ॥ १५॥
विभुर्भङ्क्ताऽतर्कोमदनभटहन्ता च मनसा
उपेक्षन्ते मान्यैर्द्रुतपिहितकर्णाः करपुटैः ।
स्फुटस्ते व्यासङ्गो मदपतितनिस्तारणकृतौ
प्रतोमातस्त्वां वै शरणपदवीं यामि सततम् ॥ १६॥
अव्यक्तं वात्यैः पिशुनमनुजैर्यन्न्यपहृतं-
विगर्ह्यन्तून्मत्तैरतिपतितवृन्दैः परिहृतम् ।
हरन्त्येनःसर्वं श्रमविरहितैका विजयते-
यदुद्धारौदास्यं भवति भजतान्मार्द्रहृदया ॥ १७॥
यदौदास्यं जाताऽऽस्यमलहृदयध्यानपथगे-
ममाघन्यू हान्तेऽकृतयजनहव्याधिपनतेः ।
तदानीमेवायें जगति जयिनामूर्जितयशो-
लयं याता रम्यं शमनभटहासंस्तवतटे ॥ १८॥
मदोन्मत्तानस्तान् वृषलरमरणीसक्तमनसः-
महारोगग्रस्तान् करपदविहीनानपि नरान् ।
जडान्यन्धव्यङ्गान्प्रकृतिविषमाद्यानपिनरान्
परित्यक्तान्देवैरमतमवितुं स्वौषधमसि ॥ १९॥
यदन्तः क्रीडन्तोन्वनवरतमानन्दभरिता-
न गृध्राःश्वेतास्ते त्रिदिवगमनेच्छाजितयमाः ।
निवेशान्नारीणामशुभशमनोऽवद्यवपुषां
तटोऽयं मातस्ते भव विगमशूरो भवतु नः ॥ २०॥
विभान्तेभूतेशाजटिलशिरसश्चन्द्रविभया-
निनेतुं ह्यायातायम पुरमघा ये यमभटाः ।
कृता वासन्तीरे जननि तव शुद्धे च मनुजं-
गतं पञ्चत्वं ते हृतकलुषमालोक्य विगताः ॥ २१॥
बृहत्त्वद्वीचीनाममलपयसा मार्ज्जितवपुः
शरीरान्ते शेते धृतिधर नरो दाविकतटे ।
तदैनद्धित्वार्ये व्रजति पदमाद्यं मधुरिपो-
र्विमानस्थो मान्यस्त्वदिति तनुजातामपि दिवि ॥ २२॥
सुशैलं निश्शोक कमनकलहंसाद्यभिरमं-
तरुवातच्छायं कुसुमभरलुब्धालिनिचितम् ।
सुधा प्रख्या धारापतनध्वनितं दाविकमिदं
पुनीतं तीरन्ते मदघवृकयूथं विधमतु ॥ २३॥
भवत्यां सावित्र्यां श्रुतिकुशलमादौ व्यवसितं-
शिवम्भूर्यायासं विधिधृतविशेषं बहुषथम् ।
तदेवायं धत्ते त्रिदिवगमनायाश्ववहित-
स्तवैतेनैवतन्नवलषयसाऽभ्येति सकलम् ॥ २४॥
प्रवाहेऽपान्तेयाः सिततरलहर्य्यो घनतटा-
स्तरङ्गैरुत्तेङ्गैर्मृदुल पवनैश्चापि च लतैः ।
सुधासिन्धो मातर्भव वनभवाग्निञ्चलशिखं
नयन्त्वार्द्रेः शान्तिं विवनगृहकूपप्रपतिताम् ॥ २५॥
इयं या ते मूर्तिः सुरवरनुता पावनमयी-
जनानां येषां हृन्नवनलिन नालं यदि गता ।
निहन्त्याश्वेनांसि त्वरुण इव भूर्यास्तृततमः-
घटस्वेदानी मे यमरणकृपोद्धारसरणीम् ॥ २६॥
शरच्चन्द्रामां त्वाममलविधुबिम्बार्द्धमुकटां-
सुनद्धग्रेवेयदयुतिनिकरभूषाङ्गदधतीम् ।
जपन्त्यायत्ताहृन्नवजलजकोशे सुमनसः-
न तेषां भक्तानां क्वचिदपि च याम्यः परिभवः ॥ २७॥
स्तवैर्देवींस्तव्यां श्रुतिविदितसारार्थललितैः-
महापद्मासीनां वजनवरदां शुभ्रवसनाम् ।
स्मरन्ति ध्यानेनैकतरमनसा येऽधधमनीं-
विसृज्येमं मर्त्या गिरिशधरशृङ्गेऽमृतभुजः ॥ २८॥
वहन्तीं शीतांशुं शिरसि तव सीमन्तसरणीं-
द्विधाभिन्नाकेशां करविधृतपद्मां विधिनुताम् ।
जनास्त्वद्भृत्या ये त्ववनिपृथुपृष्ठे सुविमले-
भजन्ति त्वामम्ब प्रतिदिवसमाजन्मपविताः ॥ २६॥
हरन्त्याः सत्वानां दुरितसमवायं शिवचिदा-
स्वसृष्टानाम्भूतैः प्रबलगुणमय्या गिरिसुते ।
धृता पश्चाद्ङ्गे हतमनसिजेनातिवशिना-
महत्वं वक्तुन्ते कथमपि न विज्ञः प्रभवति ॥ ३०॥
समृद्धित्वं भूमेर्जलधिपरिधे रिवितथं-
किमीश त्वं क्रीडारचितजगतां यत्पशुपतेः ।
स्मृतीनां वैचित्र्यं फलमथ सतां पुण्यनिवहं-
षयः पीयूषाभं तव जननि शन्नः प्रदिशतु ॥ ३१॥
विरिञ्चिः सञ्चिन्वंस्तव चरणकञ्जोद्भवपयः-
स देवान्सर्वेशः प्रजनयति लोकानवरतम् ।
विमृग्यं शेषेणाऽप्यवनिदधता सैव शिखरात्
समुत्तीर्णा कर्तुं दिविज नरसूद्धारणविधिम् ॥ ३२॥
शचीशोऽपीदन्ते ललितचरणाम्भोजसलिलं-
गजेन्द्रादुत्तीर्यावनितलमगम्यं दिविषदाम् ।
शिरस्याधत्ते यो मणिमयकिरीटद्युति मति-
र्वृतो देवव्रातैस्त्रिदशवनितान्त्यमुदितैः ॥ ३३॥
सुरस्त्रीसङ्घातस्त्रिदिवभुवनाद्दाविकपयः-
परिस्नातुं यातस्तव जननि तीरं हयमुखैः ।
जगौ चेदम्भद्रं श्रुतिमृदुलमध्यं समुरजै-
रभूतत्सङ्गीतं गिरिशसुखदङ्कीचकरवम् ॥ ३४॥
मुनिव्रातैर्यत्तैस्समरशतधीरैश्च कृतिभिः-
सुरज्येष्ठेनापि स्मरभटमजेयं हि बलिनम् ।
निहत्याजौ रुद्रोऽखिलभुवनवन्द्या सुयतिता-
मगात्त्वत्सम्पर्कादशुभशमनी नो भव शिवे ॥ ३५॥
इदन्ते शीताम्भः स्फटिकप्रतिमं कौतपविधौ-
प्रयुक्तं पश्यानान्दुरितभरविस्राब्धिपतिताम् ।
व्यसूनामुद्धारञ्जन निकुरुते ते च विदिते-
महीयन्ते लोके शिशिरशशिनः शान्तवपुषः ॥ ३६॥
लतासम्पृक्तानान्नवकुसुमभारप्रवहता-
न्तरूणान्तामस्यं मधुकरवृतानां परिगतम् ।
त्वदीयानां पानाद्विशदपयसामाज्जवपदै-
स्तरङ्गोत्सृष्टानाञ्जननि तरुजन्मापि च यतः ॥ ३७॥
चलद्वीचीक्षोभभ्रमित झषचक्रोर्ज्जितरवे-
जगत्प्राणोद्भूतदृमगलितपुष्पाऽऽस्तृततटे ।
प्रवाहे त्वद्वारां पिकशिखिगणा येऽतिमधुरं-
नदन्तीहाऽऽलोकध्वनय इव पूलाङ्घ्रिपगृहाः ॥ ३८॥
अहोऽन्तर्मद्राणां हिमगिरिगुरोर्डुग्रहृदयात्-
सहस्राराधारे भगवति शिवे दाविकमयै ।
चतुर्विंशत्कोशायतिरपि चतुर्विस्तृतिरथो
मुमुक्षुप्रेतानां तरणि ! तरणी नत्वदपरा ॥ ३९॥
नमश्चिद्रूपायै त्रिगुणबलमय्यै प्रकृतये
नमः सद्रूपायै विधुशकलमौलेऽखिलभृते ।
सरिद्रूपायै ते पवितवसुधायै श्रुतवतां-
ददत्यै निर्वाणं निरवधिसुखं सत्वनिधये ॥ ४०॥
जगत्पूज्यायै ते यजनफलदायै भव छिदे-
नमो मेदिन्यै तेऽखिलवसुधरायै सुश्रवसे
नमो धीरायै ते विशदगुणमय्यै सुगतये ।
नमो वैष्णव्यै ते मुनिवृढयुतायै सुमतये ॥ ४१॥
यस्यास्तेऽमलवीचयो भुवि वदूर्गुप्ताऽऽस्तृता देविके-
या धृत्वाऽखिलवन्द्यवेदवदनास्त्वङ्गेऽज लोकङ्गताः ।
दण्डाद्यस्त्रधरामहोग्रवपुषो याभ्यो यमा दूरत-
स्ता दिव्या नरलोकपावनकराः सेव्या बुधैस्सर्वदा ॥ ४२॥
यस्मिन्प्रपीते पयसि त्वदीये
नृणामघं नश्यति चान्तराश्रितम् ।
स्वच्छं सुधासम्मितमद्यनस्त-
त्करोतु भव्यम्भवभीतचेतसाम् ॥ ४३॥
त्वत्पादसम्भून्नपयः प्रचेतास्तं
धार्य्य पूतं शिरसाप सिद्धिम् ।
शेषस्त्वदीयान्विदितान्गुणान्वै
शक्नोति नैवाद्यतने न मातुम् ॥ ४४॥
त्वमेव गङ्गा यमुना त्वमेव
त्वमेव सिन्धुश्च सरस्वती वै ।
त्वन्देविकारूपमपौह शर्वे
दधर्थलोकाय विनाशनाय ॥ ४५॥
त्वमेव मातर्बहुधा व्यवस्थिता
त्वमेव माया खलु शाम्भवीति ।
त्वत्तोऽप्यनन्ता जगतःप्रसूति-
स्तत्वैश्चिदाभास बलेन देव्याः ॥ ४६॥
सदाऽऽपोज्योतिष्टेऽवनिदहरगान्तः प्रवहति
भुवः पृष्ठस्थानां सकलशमलानि प्रदहति ।
इदानीं हिन्दूनां निखिलकलुषं त्वं परिहर
कुरुष्वैतान्नित्यं हृदयबलयुक्तानृषिवृढान् ॥ ४७॥
सदाचारै निष्ठान्प्रबलतमदुष्टक्षयकरान्
प्रचारे वेदानामनुदिनमधियज्ञ रुचियुताम् ।
गृहेष्वासक्तानां हृदि सबलनिष्ठां द्रढयितुं-
सशक्तान्वाग्भक्ताज्जननि ! कुरु सद्योऽग्रजवरान् ॥ ४८॥
अज्ञात विदुषा सृष्टां लहरीं देविका प्रियाम् ।
विहारीलाल वासिष्ठो मुद्राप्यैनां समर्पये ॥
॥ इति श्रीदेविकालहरी सम्पूर्णा ॥
Found a Mistake or Error? Report it Now