|| सुराङ्गनाभिः कृता देवीस्तुतिः ||
दयारसघने शिवे विकचपङ्कजास्येऽम्बिके
सुचम्पकसरावलीमधुरगन्धजाजीसरैः ।
सुगुच्छवरमल्लिकाविधृतपाटलोशीरकै-
र्विराजितकपर्दके विलसदिन्दुकोटीरके ॥ १॥
नमत्सुरपदाम्बुजे (नमस्सुरपदाम्बुजे, नमस्सुरवरप्रदे)
भवहरे (भवहरं) नमस्ते नमः ॥
मञ्जीरशिञ्जितरणन्मणिपादयुग्मकञ्जो-
पमानकरणायितलक्तकोह्यम् ।
पादद्वयं सुरगणोत्तममौलिकोटिघृष्टं
सुसन्नखजिताम्बरकान्तिकान्तम् ॥ २॥
(मञ्जीरशिञ्जितरणन्मणिपादयुग्मकञ्जो-
पमानकरणायितलक्तकोद्यपादद्वयम् ।
सुरगणोत्तममौलिकोटि-
घृष्टं सुसन्नखजिताम्बर कान्तिकान्तं)॥ २॥
त्वामम्ब(त्वामम्बं)चाम्बुरुहगर्भरसास्यनेत्रे
लग्ना विलग्नहृदयास्तुतरां नमस्ते ॥ ३॥
जय देवि जगद्वन्द्ये प्रपन्नार्तिहरे शिवे ।
तव पादाम्बुजद्वन्द्वदर्शनं नः क्व वा भवेत् ॥ ४॥
तवपादाम्बुजार्चातोधन्यामान्यास्सुरासुराः ।
शिववामाङ्कभागस्थासदाकैलासवासिनी ॥ ५॥
तवपादप्रभाजालैर्धृता (प्रभाजालैर्झता, प्रभाजालैर्घृष्टा) लोकत्रयावली ।
अद्य धन्यतरः कालोह्यद्य धन्ये विलोचने ॥ ६॥
मुनिदेवाङ्गनास्सर्वा यत्तेदृष्टं पदद्वयम् ।
वेदैरपि ह्यविज्ञातं वेदान्तैरपि ते पदम् ॥ ७॥
तवाद्य दर्शनं जातं सफला नो मनोरथाः ॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये सुराङ्गनाभिः कृता देवीस्तुतिः ॥
Found a Mistake or Error? Report it Now