Download HinduNidhi App
Misc

धन्वन्तरी मन्त्रः

Dhanvantari Mantra Sanskrit

MiscMantra (मंत्र निधि)संस्कृत
Share This

|| धन्वन्तरी मन्त्रः ||

ध्यानं
अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत
रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे ।
आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं
स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥

शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः ।
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यम् ।
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये ।
अनारोग्यं न तेषां स्यात् सुखं जीवन्ति ते चिरम् ॥

मन्त्रं
ॐ नमो भगवते वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे स्वाहा ।

[पाठान्तरः]
ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वन्तरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।

गायत्री मन्त्रम्
ॐ वासुदेवाय विद्महे सुधाहस्ताय धीमहि ।
तन्नो धन्वन्तरिः प्रचोदयात् ।

तारकमन्त्रम्
ॐ धं धन्वन्तरये नमः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download धन्वन्तरी मन्त्रः PDF

धन्वन्तरी मन्त्रः PDF

Leave a Comment