|| श्रीदूर्वेशस्तोत्रम् ||
(श्रीदूर्वाक्षेत्रे – अरवङ्गुलापरनामके)
गणनाथषण्मुखयुतो गिरिजासंश्लेषतुष्टहृदयाब्जः ।
दूर्वाभिख्यपुरस्थाँल्लोकान् परिपातु भक्तिविनययुतान् ॥ १॥
विद्यानाथ विनीतिभक्तिसहिताँल्लोकान् कृपावारिधे
दूर्वाभिख्यपुरस्थितान्करुणया पाहीभवक्त्रं यथा ।
विद्यायुःसुखयुक्तिशक्तिभिरलंयुक्तान्विधायानिशं
शान्त्याद्यैरपि दिव्यमुक्तिपदवीसन्दर्शकैः शङ्कर ॥ २॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदूर्वेशस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now

