Misc

श्रीद्विनेत्रशम्भुस्तुतिः

Dvinetrashambhustutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीद्विनेत्रशम्भुस्तुतिः ||

अवतारेऽस्मिन्कामप्रसक्त्यभावाद्विनेत्रत्वम् ।
अलमिति तार्तीयं किं नेत्रं शम्भुस्तिरोधत्ते ॥ १॥

समताबोधाय नृणां पदपाथोजप्रणम्राणाम् ।
गिरिशेनाद्य कृपातस्त्यक्ता वा विषमलोचनता ॥ २॥

अथवा किं बोधयितुं विकारहीनं पदं कृपाम्भोधे ।
वैरूप्यं मा भूदिति समलोचनतां दधासि मे ब्रूहि ॥ ३॥

द्वे विद्ये श्रुतिमध्ये वेद्ये प्रोक्ते जनानां हि ।
इममर्थं बोधयितुं नेत्रद्वन्द्वं गुरो धत्से ॥ ४॥

बाह्यं तथान्तरं च द्वन्द्वं तमसो निवारयितुम् ।
अलमिति नेत्रद्वन्द्वं धत्से किं यतिवर ब्रूहि ॥ ५॥

नेतारो जगतां किल विख्यातौ हरिहरौ लोके ।
तदुभयरूपत्वात्त्वयि नेत्रद्वन्द्वं गुरो युक्तम् ॥ ६॥

स्वाहाभावादस्मिन् स्वाहानाथो निवृत्तो यत् ।
तस्मान्नेत्रद्वन्द्वं शिष्टं यतिरूपशङ्करे नूनम् ॥ ७॥

अज्ञानतिमिरसंवृतजनततये बोधनेत्रदानेन ।
अवशिष्टा किमु चास्मिन्नवतारे द्विनेत्रता शम्भो ॥ ८॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीद्विनेत्रशम्भुस्तुतिः सम्पूर्णा ।

Found a Mistake or Error? Report it Now

Download श्रीद्विनेत्रशम्भुस्तुतिः PDF

श्रीद्विनेत्रशम्भुस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App