गजाननस्तुतिः लोभासुरेण प्रोक्ता PDF संस्कृत
Download PDF of Gajananastutih Lobhasurenaprokta Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गजाननस्तुतिः लोभासुरेण प्रोक्ता संस्कृत Lyrics
|| गजाननस्तुतिः लोभासुरेण प्रोक्ता ||
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच –
तं प्रणम्य महादैत्यो लोभः परशुं उत्तमम् ।
कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥
लोभासुर उवाच ।
नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे ।
नानाशस्त्राणि शस्त्रेश! त्वदाधाराणि ते नमः ॥ ४॥
प्रलयानलसङ्काशं स्वरूपं धरते नमः ।
अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥
दृश्यादृश्यमयायैव सर्वदर्पहराय ते ।
धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६॥
साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् ।
तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७॥
शरणागतपालाय सदा स्वानन्दसंस्थितः ।
रक्ष मां भयभीतं भोः परशो! ते नमो नमः ॥ ८॥
नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने ।
बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४॥
हेरम्बाय सदा स्वानन्दवासिने महात्मने ।
परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५॥
सुरासुरप्रियकर सुरासुरमयाय ते ।
लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६॥
देवानां पालकायैव दैत्यानां रक्षकाय ते ।
सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७॥
लम्बोदराय देवेश! दैत्येश! मूषकध्वज! ।
अनादये च सर्वेषां आदिरूपाय ते नमः ॥ १८॥
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ।
ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९॥
ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते ।
शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २०॥
एकदन्ताय सर्वेश! वक्रतुण्डाय ते नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१॥
सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२॥
बीजरूपं गणाधीश! जगतां ब्रह्मणां गजम् ।
चिह्नेन लभ्यसे तेन गजानन! नमोऽस्तु ते ॥ २३॥
बोधहीनाय रूपाय सदा साङ्ख्यमयाय च ।
विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४॥
यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः ।
तं किं स्तौमि गणाधीश! नमस्ते वरदो भव ॥ २५॥
त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो ! ।
तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६॥
एवं स्तुत्वा महालोभः प्रणनाम गजाननम् ।
तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७॥
गजानन उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतः शृण्वतश्चैव लोभस्तं नैव पीडयेत् ॥ २९॥
पुत्रपाउत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दलोके स ब्रह्मभूतो भवैष्यति ॥ ३०॥
यः स्तौति मामनेनैव स मे मान्यो न संशयः ।
सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥ ३१॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
शरणागतमेवं तु दानवोत्तम हन्मि न ॥ ३२॥
इति लोभासुरेण प्रोक्ता गजाननस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगजाननस्तुतिः लोभासुरेण प्रोक्ता
READ
गजाननस्तुतिः लोभासुरेण प्रोक्ता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
