विघ्नासुरकृता श्रीगजाननस्तुतिः PDF संस्कृत
Download PDF of Gajananastutih Vighnasurakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
विघ्नासुरकृता श्रीगजाननस्तुतिः संस्कृत Lyrics
|| विघ्नासुरकृता श्रीगजाननस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
विघ्नासुर उवाच ।
नमस्ते गणनाथाय गजाननस्वरूपिणे ।
योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५॥
अनाकाराय साकाररूपाय ते नमो नमः ।
नानाभेदविहीनाय भेदानां पतये नमः ॥ १६॥
विघ्नेशाय परेशाय कालभीतिहराय ते ।
हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७॥
अनादये ह्यनाथाय सर्वेषामादिमूर्तये ।
भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः ॥ १८॥
स्वानन्दवासिने तुभ्यं मूषकध्वजिने नमः ।
मूषकोपरिसंस्थाय ढुण्ढिराजाय ते नमः ॥ १९॥
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ।
गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥ २०॥
सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च ।
सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥ २१॥
अमेयमायातिगमूर्तयेऽपि ते सदा सुशान्तिप्रदपूर्णमूर्तये ।
मनोवचोहीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥ २२॥
अज्ञानदोषेण कृतोऽपराधो हेरम्ब तं क्षन्तुमिहार्हसि त्वम् ।
रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥ २३॥
अधुना हि मया बुद्धं स्वरूपं ते गजानन ।
योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥ २४॥
त्वां विना का समर्थः स्यात् कालं कलयतां प्रभुम् ।
जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥ २५॥
एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् ।
तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥ २६॥
(फलश्रुतिः)
श्रीगजानन उवाच ।
त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् ।
कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥ २७॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥ २८॥
हन्तुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः ।
वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥ २९॥
इति विघ्नासुरकृता श्रीगजाननस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowविघ्नासुरकृता श्रीगजाननस्तुतिः
READ
विघ्नासुरकृता श्रीगजाननस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
