गणाधिपाष्टकम् PDF संस्कृत
Download PDF of Ganadhipashtakam Sanskrit
Shri Ganesh ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
गणाधिपाष्टकम् संस्कृत Lyrics
|| गणाधिपाष्टकम् ||
श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः
शिवतनयः शिरोविधृतशीतमयूखशिशुः ।
अविरतकर्णतालजमरुद्गमनागमनै-
रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥
सकलसुरासुरादिशरणीकरणीयपदः
करटिमुखः करोतु करुणाजलधिः कुशलम् ।
प्रबलतरान्तरायतिमिरौघनिराकरण-
प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥
द्विरदमुखो धुनोतु दुरितानि दुरन्तमद-
त्रिदशविरोधियूथकुमुदाकरतिग्मकरः ।
नतशतकोटिपाणिमकुटीतटवज्रमणि-
प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥
कलुषमपाकरोतु कृपया कलभेन्द्रमुखः
कुलगिरिनन्दिनीकुतुकदोहनसंहननः ।
तुलितसुधाझरस्वकरशीकरशीतलता-
शमितनताशयज्वलदशर्मकृशानुशिखः ॥
गजवदनो धिनोतु धियमाधिपयोधिवल-
त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् ।
करटकटाहनिर्गलदनर्गलदानझरी-
परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥
दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ-
द्दितिजचमूचमूरुमृगराडिभराजमुखः ।
प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा-
घनकुचकुम्भगाढपरिरम्भणकण्टकितः ।
अतुलबलोऽतिवेलमघवन्मतिदर्पहरः
स्फुरदहितापकारिमहिमा वपुषीढविधुः ।
हरतु विनायकः स विनताशयकौतुकदः
कुटिलतरद्विजिह्वकुलकल्पितखेदभरम् ।
निजरदशूलपाशनवशालिशिरोरिगदा-
कुवलयमातुलुङ्गकमलेक्षुशरासकरः ।
दधदथ शुण्डया मणिघटं दयितासहितो
वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः ॥
पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं
कठिनशुचाकुठावलिकठोरकुठारवरम् ।
विमतपराभवोद्भटनिदाघनवीनघनं
विमलवचोविलासकमलाकरबालरविम् ॥
इति गणाधिपाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणाधिपाष्टकम्

READ
गणाधिपाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
