सूर्यकृता श्रीगणाधीशस्तुतिः PDF संस्कृत
Download PDF of Ganadhishastutih Suryakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
सूर्यकृता श्रीगणाधीशस्तुतिः संस्कृत Lyrics
|| सूर्यकृता श्रीगणाधीशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
सूर्य उवाच ।
नमस्ते विकटायैव मायामायिकरूपिणे ।
वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥
तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः ।
गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥
एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् ।
धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥
गजाननाय सर्वादिपूज्याय परमात्मने ।
हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः ॥ १३॥
परेशाय महाविघ्ननाशनाय महात्मने ।
दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥ १४॥
अनाथाय सनाथानां नाथाय सर्वदायिने ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ १५॥
अनन्तविभवायैवानन्तमायाप्रधारिणे ।
ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥ १६॥
मूषकवाहनायैव सर्वान्तरप्रचारिणे ।
मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥ १७॥
किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक ।
अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ १८॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगाद ह ॥ १९॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
मदीयस्तवनं चेदं सर्वदं सम्भविष्यति ।
त्वया कृतं पठेद्यश्च शृणुयात्तस्य सर्वदा ॥ २०॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
सन्तुष्टोंऽते ब्रह्ममयं करिष्यामि महामते ॥ २१॥
इति सूर्यकृता श्रीगणाधीशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसूर्यकृता श्रीगणाधीशस्तुतिः
READ
सूर्यकृता श्रीगणाधीशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
