श्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत PDF संस्कृत
Download PDF of Ganadhyaksha Stotram Ikshvakunp Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत संस्कृत Lyrics
|| श्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत ||
भरद्वाज उवाच
कथं स्तुतो गणाध्यक्षस्तेन राज्ञा महात्मना ।
यथा तेन तपस्तप्तं तन्मे वद महामते ॥ १॥
सूत उवाच
चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज ।
रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥ २॥
सुरक्तकुसुमैर्हृद्यैर्विनायकमथार्चयत् ।
रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ॥ ३॥
विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत् ।
ततोऽसौ दत्तवान् धूपमाज्ययुक्तं सचन्दनम् ।
नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ॥ ४॥
एवं सुविधिना पूज्य विनायकमथास्तवीत् ।
इक्ष्वाकुरुवाच
नमस्कृत्य महादेवं स्तोष्येऽहं तं विनायकम् ॥ ५॥
महागणपतिं शूरमजितं ज्ञानवर्धनम् ।
एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥ ६॥
त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् ।
आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ॥ ७॥
आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् ।
अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥ ८॥
तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् ।
मदमत्तं विरूपाक्षं भक्तिविघ्ननिवारकम् ॥ ९॥
सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम् ।
बुद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् ॥ १०॥
नमोऽस्तु गजवक्त्राय गणानां पतये नमः ।
मेरुमन्दररूपाय नमः कैलासवासिने ॥ ११॥
विरूपाय नमस्तेऽस्तु नमस्ते ब्रह्मचारिणे ।
भक्तस्तुताय देवाय नमस्तुभ्यं विनायक ॥ १२॥
त्वया पुराण पूर्वेषां देवानां कार्यसिद्धये ।
गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥ १३॥
ऋषीणां देवतानां च नायकत्वं प्रकाशितम् ।
यतस्ततः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥ १४॥
त्वामाराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम् ।
कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥ १५॥
रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेज्जपेत् ।
त्रिकालमेककालं वा पूजयेन्नियताशनः ॥ १६॥
राजानं राजपुत्रं वा राजमन्त्रिणमेव वा ।
राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् ॥ १७॥
अविघ्नं तपसो मह्यं कुरु नौमि विनायक ।
मयेत्थं संस्तुतो भक्त्या पूजितश्च विशेषतः ॥ १८॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।
तत्फलं पूर्णमाप्नोति स्तुत्वा देवं विनायकम् ॥ १९॥
विषमं न भवेत् तस्य न च गच्छेत् पराभवम् ।
न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ॥ २०॥
य इदं पठते स्तोत्रं षड्भिर्मासैर्वरं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ २१॥
सूत उवाच
एवं स्तुत्वा पुरा राजा गणाध्यक्षं द्विजोत्तम ।
तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् ॥ २२॥
उत्सृज्य वस्त्रं नागत्वक्सदृशं बहुमूल्यकम् ।
कठिनां तु त्वचं वाक्षीं कट्यां धत्ते नृपोत्तमः ॥ २३॥
तथा रत्नानि दिव्यानि वलयानि निरस्य तु ।
अक्षसूत्रमलङ्कारं फलैः पद्मस्य शोभनम् ॥ २४॥
तथोत्तमाङ्गे मुकुटं रत्नहाटकशोभितम् ।
त्यक्त्वा जटाकलापं तु तपोऽर्थे विभृयान्नृपः ॥ २५॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत
READ
श्रीगणाध्यक्षस्तोत्रं ईक्ष्वाकुकृत
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
